पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८७
सहृदयलीला ।

 शोभाया आरादुपकारकत्वाद्व्यञ्जकः परिकरः॥ तस्य चेतनाचेतनयोः स्थाणुचलयोः प्रत्येकं श्लिष्टसंनिहितमा[१]त्ररूपत्वेनाष्टविधत्वम् ॥ उत्सङ्गोपासीनकान्तहथपरिवारवातायनविताननौछत्रादीनि दर्शनानि ॥ तानि द्विधा । व्यस्तसमस्तभेदात् । एवं शोभासमुत्पादकसमुद्दीपकानुप्राणकव्यञ्जकाः क्रमाद्गुणालंकारजीवितपरिकराः ॥ एवं परस्परोपकारकत्वादितरेतरानुप्राहकत्वं सिद्धम् ॥

[२]ति श्रीराजानकरुय्यकविरचितायां सहृदयलीलायां परिकरोल्लेखश्चत्तुर्थ:।

[३]माप्तेयं सहृदयलीला






  1. मानत्वेन' इति क पाठः,
  2. सहृदयलीलायां इत्येव ख-पाठः
  3. ’समाप्तेयं सहृदयचसत्कारिणी सहृदयलीला । कृतिः श्रीमद्विपश्चिद्वरराजानकतिल- कात्मजश्रीमदालंकारिकसमाजाग्रगण्यश्रीराजानकरुय्यकस्य राजानकरुचकापरनानोऽलंकारसर्वस्कृतः' इति खस्तकेऽस्तिः क-पुस्तके तु सहृदयाचमत्कारिणी इति विशेषण नास्ति.