पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६५
शृङ्गारवैसस्यतरङ्गिणी।

अदमपि पादमावपि गन्तुं गमनाय न भवति न समो भवति । अथा-सा भय मुक्त्वा नगरौं गन्तुकामो नरो विषवृक्षाधी वसन् मत्सो भवति तदा पदमात्रमपि न गन्तुं शक्नोति । तद्वत् संसार मुक्त्वा मुक्तिमभिलपता पुंसा विषयसेत्रायां मतिर्न कार्येति तात्पर्यम् ॥

सोमप्रभा वार्यममा च यत्नः पुंसां तमःपङ्कमपाकरोति
तदप्यमुभिन्नुपदेशले निशम्यमाने[१]ऽनिशमेति नाशम् ॥ १६॥

 सोमप्रभा चन्दकान्ति: च पुनः अर्थनमा अर्यरः सूर्यस्य कान्तिः यत्पुंसा मनुष्याणां तमःपकमज्ञानान्धकारसमूहं न अपाकरोति न दूरीकरोति तदपि अन्तर्गतान्धकारमपि अमुस्मिकुपदेशलेशेऽल्योपदेशे निशम्यमाने श्रृंयमा सति अनिशं निरन्तरं नासमेति नाशं प्रामोति । चन्द्रसूर्यप्रभयाज्ञानान्धकार दूरीकर्तुं न शक्यते । अनेनोपदेशेन अन्तर्गतान्धकारोऽपि दूरीकर्तुं शक्यत इति । अतोऽस्योत्कृष्टत्वम् । अन्न पधे ग्रन्थका सोमाभाचार्य इति स्वनाम गोमितं चातुर्येणेति बोध्यम् ॥

संबल्स च्छोरद्विपमुनीन्दु(१७८५)मितस्य भाले
  मार्ग त्रयोदशमिते दिवसे भुगौ च ।
स्वरूपा तरी विरचिता सुखबोधिकारख्या
  श्लेषौंधदुस्तरतरङ्गिणिका सुशास्त्रे ॥
 आगरानान्नि नगरे नन्दुलालेन धीमता
 दानविशालशिष्यानुरोधेन कृपया गुरोः । (युग्मम्)
सोमप्रभाचार्यकृति सुदुर्गमा विवृण्वता स्वल्पधिया भयानः यत् ।
न्यूनाधिकोहङ्कनमल्पबुद्धितः कृतं विशोध्य कृतिभिः कृपालुभिः ॥
 श्रीजिनभक्तिसूरीन्द्रे गच्छसाम्राज्य विति ।
 अशेषमनुजन्दनतपादाम्बुजदये ।

इति सुखबोधिकानाच्या वृत्या सभेवा श्रीश[२]तार्थवृत्तिकारश्रीसोमप्रभाचार्यविरचिता भारवैराग्यतरङ्गिणी समाशा



  1. 'समुपैति इति मूलपुस्तकपाठः
  2. शनार्थिसोमप्रभाचार्यकृता' सूलपुस्तकपाठ: