पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६४
काव्यमाला।

रन्ध्रे निहितवसतिः । नाभीरन्ध्रे नाभीकुहरे विहिता कृता वसतिर्वासो येन स नाभीरन्ध्रे विहितवसतिः । अयमेवान्यन्त्र गमने हेतुः। सर्पकञ्जुकदर्शनमपि भयावहम् । नाभी सर्पविलं हारं सर्पकञ्जुकं तद्बुद्ध्या पलायनं युक्तमेवेत्यर्थः ॥

यः कामकामलविलुप्तविवेकचक्षुः
 स्वर्गापवर्गपुरमार्गम[१]वीक्षमाणः
ज्ञानाञ्जनं प्रति निरादरतामुपैति
 भ्रातः पतिष्यति स भीमभवान्धकूपे ॥ ४४ ॥

 यः पुरुषः ज्ञानाञ्जनं ज्ञानमेवाञ्जन प्रति निरादरतामुपैति निरादुरं करोति । कधभूतो यः । कासकामलविलुतदियकचक्षुः । बामः स्मरः स एव कामलों नेत्रशेगस्तेन विलुप्तं विषेक सूत्र न्वक्षुर्यस्य स कासकामलविलुतविवेकचक्षुः । अस युब स्वर्गापवर्गपुरमार्गमवीक्षमाणः । स्वर्गो देवलोकोऽपयों मोक्षः, तावेच पुरे नगरे तयोर्मार्गस्तमवीक्षमाणः अदर्शकः एवंविधः स पुरुषः हैं भाना, भीमभवान्धकूपे । भीमो भयानकः भवः संसारः स एव अन्वकूपः तस्मिन् पतिष्यति । यः कामलारोगग्रस्तचक्षुरञ्जनं प्रत्यादरं न करोति सोऽन्धकूपे पतत्येवेति ॥

भवारण्यं मुक्त्वा यदि जिगमिषुर्मुक्तिनगरीं
 तदानीं मा कार्षीर्विषयविषवृक्षेषु वसतिम्
यतश्छायाप्येषां प्रथयति महामोहमचिरा-
 दयं जन्तुर्यस्मात्पदमपि न गन्तुं प्रभवति ॥ ४५ ॥

 हे पुमन, भवारणय संसाराटवीं मुक्त्वा यदि मुक्तिागरी शिवपुरी जिगमिषुः गस्तुमिछुरसि तदानीम् । विषयविषक्षेषु । विषया एव विषवृक्षास्त्रेषु वसति ति वं मा कार्षीः मा कुर्याः । यतो यस्मात् कारणात् एषां वृक्षाणां छायापि महामोह अचिरात् शीघ्रं प्रथयति बिस्तारयति । विषयविषवृक्षाच्छायास्पर्शोऽपि वैचित्यकारको भवतीत्यर्थः । अतः कारणात् अयं जन्तुः प्राण


  1. 'अवेक्ष्यमाणः इति मूलपुस्तकंपाठः