पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६१
शृङ्गारवैराग्यतरङ्गिणी।

चेतचापलमाकलब्य कुटिलाकारां कुरङ्गीदृशो
 दृष्ट्वा कुन्तलराजिमञ्जनधनश्यामां किमुत्ताम्यसि ।
धर्मध्यानमहानिधानमधुना खीकर्तुकामस्य मे[१]
 प्रत्यूहार्थमुपस्थितेत्रमुरगश्रेणीति संचिन्तयेः ॥ ३८ ॥

 हे चेतः, त्वं कुरङ्गीद्दशो मृगाक्ष्याः कुन्तलराजि शिरोरुहणि दृष्ट्वा चापलमाकलययं चावल्यं गृहीत्वा किमुताम्यति कि आकुलतां करोषिः कथंसूता कुन्तलराजिम् । कुटिलाकाराम् । कुटिलो बक आकारो अस्त्रास्ताम् । पुनः कथंभूतां कुन्तलराजिम् । अञ्जनघनश्यामाम् । अञ्जन कजलं बनो मेवस्तद्वत् स्यामां कृष्णाम् । केशानां कृष्णत्वं यौवने तयुक्त स्वियं दृष्ट्वा चिन्तचलन ल्याययम् । उन्के चपुपम् दृष्ट्वा फलं. ष्टा दृष्ट्वा च नवयौवनाम् द्रविणं पतितं दृष्ट्वा कस्य नो चलते मनः ॥' इति । में मंस प्रत्यूहाथ विनार्थ अधुना इदानी उपस्थिता प्राशा इयं उरगश्वेणी सर्पपरम्परा इति त्वं सत्रि'न्तये जानीयाः । कथंभूतस्य में। धर्मध्यानमहानिधान स्त्रीकर्तुकामस्य अङ्गीकुर्वतः धर्मध्यानं धर्मचिन्तनं तदेव महानिधानम् । यत्किंचित्कार्यकरणोधतस्य सर्पदर्शन निषिद्धम् । निधानस्वीकारे तु सर्पदर्शनमतीव बेष्टमित्यर्थः । कुन्तलस्य सर्योपमानत्वं कविसंमतभेव ॥

यातुं यध[२]नुरुच्यते शिवपुरी रामानितम्बस्थली
 मुच्चेरमिमामना क[३]लभक्रीडाविहारोचिताम् ।
चेयौवनचण्डवातविततव्यामोहधूलीकण-
  क्लाम्यदृष्टिरदृष्टशाश्वतपथः [४]प्राप्नोषि जन्माटवीम् ॥ ३९ ॥

 हे पुमन , यदि तुभ्यं शिवपुरी मुक्तिनगरी यातुं गन्तुं अनुरुच्यते तदा त्वं इमां रामानितम्बस्थली ही स्त्रीनितम्बभूमि दूर दूरवो मुञ्चेः । कथंभूतां रामानितम्बस्थलीम् । अनङ्गकलभक्रीडाविहारोचिताम् । अनङ्गः कामः सं एव कलभः गजशिशुः तस्य क्रीडार्थ बिहारो विहरणं तत्रोचिता योग्याम् । चे-


  1. ते इति मूलपुस्तकपाठः.
  2. हरिणक्रीडा-' इति मूलपुरतकपाठः.
  3. प्रातातिः इति मूलपुस्तकपाठः
  4. प्राप्ताति इति मूलपुस्तक पाठः