पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६२
काव्यमाला।

दिमां दूरं न मुञ्चसि तदा किं भविष्यति तदाह-नो चेदिति । स्वं जन्माटवीं संसाराटवीं प्राप्नोषि । कथहभूतस्त्वम्। यौवनचण्डबालविततव्यामोहधूलीकणल्लास्यदृष्टिः । यौवनमेव चण्डवातस्तेन विततः विस्तारितः व्यामोहो वैचित्यं स एव धूलीकणस्तेन क्लाम्यन्ती व्याकुला दृष्टिर्यस्य तथाविधः । अत एव अदृष्टशाश्वतपथः । न दृष्टः शाश्वतस्य शिवस्य पन्था मार्गो येन सः। रजःकणपतनं दृष्ट्वा मार्गावलोकनं न भवत्येवेत्यर्थः ।

शमधनमपहा कामचौरपचार
 विरचयतिः निकामं कामिनीयामिनीयम् ।
सपदि विदधती या मोहनि[१]द्रासमुद्रा
 जनयति जनमन्तःसर्वचैतन्यशून्यम् ॥ ४० ॥

 इयं कामिनीरूपा यामिनी रात्रिः निकाममत्यन्तं कामचौरप्रचार काम अन्न चौरस्तस्य प्रचार विहरणशीलले विरचयत्ति प्रकटीकुरुते । कि ऋतुम् । शसधनमपहर्तुं शम उपशम एवं धनं तद्रहीतुम् । यामिन्यां धनाहरणार्थ चौरप्रचारों भवति । या यामिनी जन मनुष्य अन्त:सबैचैतन्यशून्यम् । अन्तरिति अन्त करणे सर्व च तत् चैतन्य च सेन शून्य रहितं जनयति करोति । यामिनी किं कुर्वती । सपदि तत्कालं मोइतिहासमुद्रा मोहो. मूर्छा एवं निद्रा वस्थाः समुद्री सभृद्धि विदधती ॥

 

मृगेक्षणा नूनमसावसीमा भीमाटवी बुद्धिमताम[२]तीत्या
यद्बाहुवल्लीभिरनङ्गभिल्लो ब[३]द्ध्वा नरांल्लम्भयते न मुक्तिम् ॥ ४१ ॥

नूनं निश्चितम् असौ मृगस्य अक्षिणीवाक्षिणी यस्याः सा मृगेक्षणा स्त्री। भीमाटवी भयानकारण्यम् । वर्तते इति शेषः । कथंभूता भीमाटवी । असीमा । न विद्यते सीमा मर्यादा यस्याः । पुनः कथंभूता । बुद्धिमतां विदुषां अतीत्यातिकमणीया यद्वाहुवल्लीभिः पस्वा मृगेक्षणाया बाहू एव वल्ल्यो लतास्ताभिः अनङ्ग एवं भिल्लस्तस्करः नरान् मनुष्यान् बद्ध्वा मुक्तिं न लम्भ-


  1. निद्राममुद्रा इति मुलपुस्तकपाळ
  2. अतीव इति मूलपुस्तक पाठः
  3. 'बान इति मूलघुस्तक्रपाठः,