पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५९
शृङ्गारवैराम्यतरङ्गिणी

स्म[१] रति न करणीयं मूर्च्छितो येन जन्तुः
 पतति कुगतिगर्ते नेक्षते मोक्षमार्गम् ॥ ३४ ॥

इहास्मिन् संसारे कः पुरुषो विषयभोगं पञ्चेन्द्रियसुखं स्पृहयति वान्छति । कथंभूतं विषयभोगम् । पुण्यकर्मायभून्यम्। पुण्यक्रर्मणः आयो लाभस्तेन शून्यम् । तत्त्वतस्त्वं विषभोगं भावये: जानीहिः । विषमभोगं विषभक्षणतुल्यं जानीहीत्यर्थः । तदेव स्पष्टयति-येन विषयभोगेन मूच्छितो मोहं प्राप्तो जन्तुः प्राणी करणीयं करणार्हं न स्मरति । पुनः मोक्षमार्गं न इक्षते । कुगतिगर्ते पतति । विषभक्षणस्य स्मरणादिन्नंशकत्वं प्रकटमेव । विषयभोगो विषभोगो भवतीत्यर्थः।

सखे सुखं वैषयिकं यदेतदाभासते त[२]न्नर कान्तमन्तः
 सत्यं तदुत्सर्पदधप्रबन्धनिबन्धनवानरकान्तमेव ॥ ३५ ॥

 है सखे हैं नर, एतत् वैषयिक विषयेभ्यो भवं बैषयिक सुखं ते तव अन्तः चेतसि कान्तं मनोज्ञ यत् आभासते तत्सत्यम् । मिथ्या नेत्यर्थः उत्सर्पदवबन्धनिबन्धनत्वात् । उत्सर्पन्प्रसर्पन् यः अघल पापस्थ प्रबन्धः परम्परा तव निबन्धन कारणे तर भावस्तवं तस्मात् । नरकान्तमेव नरक एव अन्तो यस्य तत् नरकान्तम् । नरकमापकमित्यर्थः । अनः पये पूर्वत्र नर कान्तमिति भिन्न पदम्, परन्न नरकान्तमिति समस्त पदमिति चित्रकृत ॥

स्मरक्रीडावाप्यां वदनकमले पक्ष्मलदृशां
 दृढासक्तिर्यवामधरमधुपानं विधताम् ।
अदू[३]रस्था बन्धव्यसनघटना क्लेशमहती
 विमुग्धानां तेषामिह मधुकराणामिव नृणाम् ॥ ३६ ॥

 स्मरक्रीडावाप्यां स्मरक्रीडार्थं वापी तस्यां येषां मनुष्याणां पक्ष्मलदृशां स्त्रीणां वदनक्रमले वदनमेव कमलं तत्र दृढासक्तिः इदा आसक्तिः तन्मयता


  1. स्मरति न करणीय नेक्षते मोक्षमा पतति कुगतिगर्ते. मूच्छितो ये
    चन्तुः इति मूलपुस्तक्रपाठः,
  2. 'यन्नर कान्तमेवः इति लपुस्तकपाठः
  3. मूलपुस्तके तृतीयतुरीयचरणयोर्व्यत्ययोऽस्ति