पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५८
काव्यमाला ।

 या इवं वधूः ते तब हृदये प्रमोदसंपादनव्यतिकरैकनिबन्धनम् । हृदये यः प्रमोदस्तस्य संपादनमुत्पादन तस्य यो व्यतिकरः समूहः तस्य निबन्धनं कारणं अवसिता प्राप्ता हृदयहर्षोत्पादनकारणं वधूरिति त्वया भन्यत इत्यर्थः । सा वधूः मन्मथरथस्य धूरेव युगमेव विभावनीया ज्ञातव्या । कथंभूतस्य मन्मथरथस्य । जगत्कर्मतापन्नं दुर्गदुर्गतिपथेन दुर्गतेर्नैरकादिगतेः पन्थाः दुर्गतिपथः । 'ऋक्पूरब्धूःपथामानक्षे इति अप्रत्ययः । दुर्गतौ यो दुर्गतिपथस्तेन । चिनीषोर्नेतुमिच्छो। दुर्गतिमार्गेण संसारे नेतुमिच्छतः कामस्थस्य धूरलि न वधूरित्यर्थः । वधूः धूः कथं तत्रोच्यते-वैन वकारेण सिता बद्धा वसितान दसिता अवसिता वकाररहिता वधू,रेव स्यादित्यर्थः ॥

प्रीति तन्वन्त्यनलसदृशो यास्तरुण्यस्तवैता
 देहद्युत्या कनकनिभया द्योतिताशा किवेकिन् ।
सत्यं तासामनलसहशा संयमारामराज्यां
 मा भः पार्श्वेऽप्यसि यदि शिवावासये बद्धबुद्धिः ॥ ३३ ॥

 हे‌ विवेकिन्, या एतास्तरुण्यो नार्यः तव प्रीतिं हर्षं तन्वन्ति विस्तारयन्ति । कथंभूतास्तरुण्यः । अनलसदृशः न अलसा अनलसाः आलस्यरहिता दृशो यासां ताः अनलसदृशः । उन्निद्रनेत्रा इत्यर्थः । पुनः किंविशिष्टास्तरुण्यः । कनकनिभया स्वर्णतुल्यया देहश्रुत्या सरीरकान्त्या द्योतिताः प्रकाशिताः आशा दिशो याभिस्ता द्योतिताशाः । संयमारामराज्यां संयमश्चारित्रं स एवं आरामस्तस्य राजी परम्परा तस्यां विषये तासां स्त्रीणां अनलंसदृशां अग्नितुल्यानाम् । सलं स्वीसंपर्काचारित्रवनदाहो भवत्येवेत्यर्थः । यदि त्वं शिबाबाशये मोक्षमास्यै बद्धबुद्धिः बद्धा. बुद्धिर्येन स तादृशोऽसि तदा तासां पाश्ऽपि समीपेऽपि मा भूः । अत्र पचे अनलसहशत्वम् एकन्न वर्णत्वेन अपरत्र दाहकशक्तिदयेनोपादानं चित्रकृत् ॥

क इह विषयभोगं पुण्यकर्मायशून्यं
 स्पृहयति विषभोगं भा[१]वयेस्तत्वत्तस्त्वम्


  1. 'भावयंस्तत्त्वतस्तम् इचि मूलपुस्तकपाठः