पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५७
शृङ्गारवैराग्यतरङ्गिणी।


नूनं नूपुरमेतदायतदृशो शमादिविद्वेषिणां
 क्रीडार्थं पुरमित्यवेत्य न दृशाध्यालोकनीयं क्वचित्
येनास्मिन्मुखमात्रचङ्गिमगुणैराकृष्य तैरुल्बणै-
 र्बद्धस्य प्रसभं चिरादपि सखे मुक्तिर्मवित्री न ते ॥ ३० ॥

 नून निश्चितं मापत्तशः आयते विस्तीर्णे दृशो यस्यातस्या विशालनयनायाः एतन्नूपुरं चरणभूषणं समादिविद्वेषिणां रागादिशत्रूणां क्रीडार्थं विनोदार्थं पुरं नगरमिति अवेत्य ज्ञात्वा त्वया क्वचित्कदापि दृशा नेत्रेण नालोकनीयं न द्रष्टव्यम् । शत्रुपुरं श्रेयोऽर्थिना पुरुषेण न विलोकनीयमित्यर्थः । हे सखे, येन नूपुरेण अस्मिन्पुरे तैः प्रसिद्धैः मुखमात्रचङ्गिमगुणैः मुखमात्रे ये चङ्गिमाः श्रेष्टा गुणास्तैरुल्यणैरूदारैराकृष्य प्रसभं बलात्कारेण बद्धस्य ते तव चिरादपि. । भूतं नूपुरम् । नूनम् । नृशब्देन ऊनं नूनं नूशन्दरहितं नूपुरं पुरं भवतीति ॥

या स्त्रीति. नाम्ना बिभृते शमादौ शस्त्री प्रबुद्धैरवबुध्यतां-सा ।
एना पुरस्कृत्य जगत्यनङ्गभटो यतः फुम्यभटं भिनत्ति ॥ ३१ ॥

 या स्त्रीति नाम्ना स्त्रीत्यभिधानेन बिभृते धारयति सा स्त्री प्रबुद्धैनिभिः समादायुपशमादिकर्मणि शस्त्री अमुक्तायुधम् ॥ अमुक्तं शस्त्रीप्रमुखमिति । 'क्षुरी शस्त्री कृपाणिका' इति नामकोषः । अवबुध्यत्तां ज्ञायताम् । यतो यस्मात् अनङ्गभटः कामसुभटः जगति संसार एनां स्त्रीरूपां शस्त्रीं पुरस्कृत्य अग्रे कृत्वा पुण्यभटं धर्मसुभटं भिनत्ति भेदनं करोति । सुभटेन प्रतिसुभटं शस्त्र्या भेदनं विधीयत एवं स्त्रीति शस्त्री कथं तत्रोच्यते । समादौ वा स्त्री शं शकारमादौ बिभृते सदा स्त्री शस्त्री स्यादेवेत्यर्थः ॥

येयं[१] वधूरवसिता [२]ह्रदये प्रमोद-
  संपादनव्यतिकरैकनिबन्धनं ते ।
सा दुर्गदुर्गतिपथेन जगन्निनीषो-
 र्धूरेव मन्मथरथस्य विभावनीया ॥ ३२ ॥


  1. 'बैंषा' इति मूळपुस्तकपाठः
  2. हृदयप्रमोद इति मूलयुस्तकंपाठः,