पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५६
काव्यमाला ।


वयवाविशेषः लग्ना । कथंभूता नाभी । स्फूर्जन्मनोभवभुजंगमवाशनाभी स्फूर्जन् देदीप्यमानो यो मनोभवः कामः स एव भुजंगमः सर्पस्तस्य प्राशार्थ नाभी । कामसर्पस्थानमित्यर्थः । असौ पुमानदोषं समस्त जगत् नाभीमयं अभीमयं निर्भयं न ईक्षते। न निर्भयं जगदीक्षत इत्यर्थः । यः पुरुषो यत्र स्थाने रज्यति स पुमान् तन्मयं तद्रूपमेव पश्यति । नाभी दृशि लग्ना नाभीमयं ज्जगत्पश्यतीति न चित्रम् । नामीनासीभय मिति चित्रकृत् ॥

[१]डोपयुक्तं जघनं मृगाक्ष्याः स[२]मीक्ष्य किं तोषभरं तनोषि ।
अमुं विशुद्धाध्यवसायहंसप्रवासहेतुं घनमेव विद्याः ॥ २८ ॥

  मृगाक्ष्याः स्त्रिया जघनं समीक्ष्य दृष्ट्वा कि तोषभरं हर्षभरं तनोषि विस्तारयसि । कथंभूतं जघनम् । जडोपयुक्तं जडानां मूर्खाणां उपयुक्तं य योग्यं अमुं जघनं घनं मेघमेक विधा जानीयाः । कथंभूतं जघनम् । विशुद्धाध्यवसायहंसप्रवासहेतुम् । विशुद्धो निर्मलो नः अध्यवसाय: चित्ताभिप्रायः स एवं हंसः तस्य य: प्रवास तस्य हेतुः कारणं तं विशुद्धाध्यवसायहंसप्रवासहेतुम् । घनागमे हंसा मानसे गच्छन्तीति प्रसिद्धम् । जघन घनं कथं तत्राह । जडोपयुक्तं डलंयोश्चैकत्वस्मरणात जलोपयुक्तम् । जस्य जकारस्य लोगों नाशस्तेन युक्तं प्रकारं विना जघनं घनं स्यात् ॥

नितम्बमुल्लासिततापनोदं दिदृक्षसे य[३]त्कमलेक्षणानाम् ।
सर्वात्मनात्यन्तकटुं विदित्वा तं निम्बमेव त्यज दूरतोऽपि ॥ २९ ॥

कमलेक्षणानां कमलभयानानां यं नितम्ब पृष्ठभागं दिदृक्षसे द्रष्टुमिच्छसि । कथंभूतं नितम्बर उल्लासिततापनोदं उल्लासितस्तापस्य नोदः प्रेरणं येन स तम् । ते नितम्बं निम्बसेव रिष्टं विदित्वा दूरसोऽपि स्यजः । कथंभूतं निम्बम् । सर्वात्मना पत्रफलपुष्पसमूहेन । अत्यन्तक? अतिकटुकम् नितम्बं कथं लिम्ब मिति प्रश्ने । तत्रोच्यते-कथंभूतं निम्बम् । उल्लासिततापनोदम् उल्लासित स्तस्य तकाराक्षरस्य अपनोदो नाशो यस्मिन् स तम् । तकारनाशे नितम्बो. निम्बः स्यादेवेत्यर्थः ॥


  1. 'जलोपयुक्त' इति मूलपुस्तकपार
  2. संवीक्ष्य इति मूलपुस्तकाका
  3. "कि कमले- इति मूलपुस्तकपाठः