पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११८
काव्यमाला


गन्तव्यं खलु कुत्रचिद्धक वने चेचण्डचण्डातपै-
 स्तप्ते हन्त जलाशये पुनरहो दैन्यं मुहुर्धास्यसि ॥ ९८॥
अग्रे तिष्ठति दारुणाकृतिरसै क्रोधोद्धतः केसरी
 पश्चादुद्भटदावदूषितधरासंक्रान्तचण्डानिलः ।
किं कुर्मः सहसा विहाय कलमानेतान्व्रजामः कथं
 हंहो कूणितलोचनेति करिणी चिन्ताकुला ताम्यति ॥९९॥
आदावङ्कुरितं पुनः प्रतिपदं पत्रावृतं त्वां मुदा
 सौरभ्यस्फुरितप्रसूनकलितं दृष्ट्वाथ हृष्टोऽस्म्यहम् ।
किं ब्रूमः ललिते त्वयि द्रुततरं हा हन्त किम्पाक हे.
 भूयो व्याकुलयन्ति कण्टकभराः सर्वत्र तत्किं ब्रुवे ॥१००॥
त्वतः श्रीरजनि स्फूटं समभवत्कल्पद्रुमः सादरं
 जातास्ते निधयः पुनः किमपरं जज्ञे सुधादीधितिः
कि ब्रूमस्तव वैभवं जलनिधे त्वामप्यहोऽहो वृथा
 यद्भूयस्तृषिता प्रयाति जनता तत्किं ब्रुवे त्वद्गुणान् ॥ १०१ ॥
भेकाः कूपजलं पिबन्तु नितरां वापीषु कारण्डवाः
 साकूतं सरसीधु हन्त नितरां तुङ्गाः कुरङ्गादयः ।
तृष्णाव्याकुलितस्यः चातकशिशोः किं तेन यावद्धरां
 धन्यामिः परिपूरयन्ननुदिन नोदेति धाराधरः ॥ १०२॥
तावद्धीष्मगभीरतापनिवहाः संसारमुच्चैस्तरां
 यूयं तापयत प्रचण्डकिरणज्वालावलीपूरिताः ।
यावत्सौरभभव्यमव्यविदलन्मल्लीमतल्लीदल-
 प्रोन्मीलन्मकरन्दतुन्दिलमना नोदेति मन्दानिलः ॥१०३॥
चन्द्रो हन्त कलङ्कशङ्किततनुः क्षारान्वितः सागरो
 हंहो कल्पतरुस्तरुः पुररहों मेरूः स्वयं पर्वतः ।