सोऽयं लोहदुरूहनव्यनिगडानद्धाङ्गियुग्मो मुहुः
स्मारं स्मारमुदारवन्यचरितं कण्ठीरवस्ताम्यति ॥ ८६ ॥
मन्द मन्दमहो मन्दनिचयः पेयोऽमुना सादरं
नेयो रात्रिभरः परं तु सहसा गेयः स्तवो मान्मथः ।
इत्यालोच्य समागतं खलु मया सायं नवे कैरवे
को जानाति निशापतिः पुनस्सावस्ताचलं यास्यति ॥ ८७॥
त्वं चेद्गुञ्जसि निर्भरं भ्रमर हे पीत्वापि कौन्दं मधु
स्वच्छन्दं न विलोकयस्यपि मनागेनं किमेतावता
उन्मीलन्मकरन्दतुन्दिलदलत्पुष्पाकरास्वादनं
माकन्दस्य परं स एव सुकृती जानाति किंचित्पिकः ॥८८॥
आ बाल्यं भवता समीर कति वा सार्धं मृणालीदलं
भुक्तं कलिकथामृतैरपि तथा नीतं रहः सादरम् ।
चित्तान्दोलनलालनैर्मृगदृशां वक्षःस्थलास्फालनै
र्भूयः संप्रति मां विना तव मनो रन्तुं कथं मोदते ॥८९॥
गम्यन्तां दशदिक्तटीपरिसरे रे मत्तमातङ्गजा
लीयन्तां गिरिकंदरासु तरसा हित्वाटवीं ते मृगाः ।
युष्मच्चीत्कृतिभीरुतारनिनदप्रध्वस्तनिद्राभर-
व्याघूर्णन्नयनोऽयमेति सहसा क्रोधोद्धुरः केसरी ॥ ९० ॥
कृत्वा हन्त निरन्तरं कमलिनीकोषे सुधावैभवे
हित्वा संप्रति ता हिमैरुपहितां घत्से क्वचिन्मानसम् ।
"तत्किं त्वां कथयामि हे मधुकर व्रीडाकरं भाषितं
विविधप्रेम भवादृशा न करुणालेशोऽपि संदृश्यते॥९१॥
शेते हन्त मृगङ्गिना निजशिशुं कृत्वा निकुञ्जोदरे
यूयः कुण्डलनां विधाय विबरे निद्राति सर्पाङ्गना।