पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११५
अन्योतिशतकम् ।


किं किं वारिद के गुणोत्करमहं जल्पामि धन्योऽसि रे
 धारामिश्विरस्विन्नचातकशीशुं यज्जीवयस्यातुरम् ॥ ८०॥
मोदन्ते करिशावकास्तत इतः क्रीडन्ति कोला: सुखं
 कृत्याङ्के तनयं कुरङ्गगृहिणी रोमन्थमभ्यस्यति ।
हीनं तेन मृगाधिपेन सहसा मन्यामहे काननं
 द्वित्रैरेव दिनैर्भविष्यति पर वन्याभिरन्यादृशम् ॥ ८१ ॥
तूर्णं यात मृगाः पलायत का यूयं पुनः सर्वथा
 कोलाः क्वापि निलीयत प्रसृमऱाः कोलाहले मुञ्चत ।
दृप्यद्दानदुरूहदारुणदलद्दन्तावलग्रामणी-
 गर्वग्रामविदारणाकुलकरः सोऽयं पुरः केसरी ॥ ८२ ॥
प्रौढोत्क्षिप्तमहामहीध्रशिखर कुत्रापि नीराशये
 दृष्टैव प्रतिबिम्बितं सचकितं स्वात्प्लुत्य गाढं हठात्
पातुं वाञ्छति नो जलं. करिवरस्याशङ्कया किं त्वयं
 दर्पोद्घृतशिश धुनोति नयने क्रोधोद्धुरः केसरी ॥ ८३ ॥
सक्रोधं करिणां मदैरुपहितामालोक्य विश्वंभरां
 भूयः कोपकषायिताक्षियुगलं पद्भ्यां धरां दारयन् ।
बाहुभ्यां सहसा विकृष्य तिमिरं भूमौ मुहुः पालय-
 न्भ्रूयुग्मं प्रविधूनयन्विजयते कोऽप्येष कण्ठीरवः ॥ ८४ ॥
यः सावेशमशेषवारणघट्यसंघट्टविद्रावणो
 मुक्ताजालमयानि हन्त नितरां चक्रे वनानि स्फुटम् ।
दृष्यद्दारुदुरूहपञ्जरगतो हा हा हतो वेधसा
 सोऽयं मानधनो धुनोति नयने क्रोधोद्धुरः कसरी ॥८५॥
यस्य त्रासवशाद्वने करिवराः स्पन्दन्ति नो वामनाः
 कोलाः केऽपि न निःसरन्ति महिषा व्यःग्राः पतन्ति क्षितौं।