पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११३
अन्योक्तिशतकम्।


{{bold|सर्वं चारु मनाक्तथापि यदि चेत्प्राप्त्तोऽसि मुग्धाङ्गना-
 वक्रेन्दोस्तुलनां तदा क इव ते भाग्योदयं मन्महे ॥६८॥
आयाता रजनी भविष्यति महाविश्वपदावानलो
 नोद्वेगः सहसा कृशाङ्गि मनसा कार्यों रथाङ्गाद्वयः
इत्थं बाष्पनिरुद्धगद्गदत्तया संभाष्य कोकीं चिरं
 चिन्तापूर्णमना विनोदविमुखो हंहो विधिं निन्दति ॥६९॥
सौन्दर्यं दलितं दवानलबलैर्मन्दं मरन्दोऽप्यसौ
 स्वच्छन्दं गत एव का पुनरहो पुष्पादिकानां कथा ।
शीर्णा पूर्णपरम्परा विगलिता सेयं लता तत्कथं
 हंहो मन्द मिलिन्द कुन्दविपिनं नो हातुमाकाङ्क्षसे ॥७०॥
रम्यं काननमुन्नतास्तरुगणाः स्निग्धं पयः किं पुन-
 र्मुग्धान्येव फलानि हन्त परितः सम्यञ्चि पुष्पाण्यपि
सर्वं हन्त विहाय निर्गतवतो दन्तावलस्य स्फुर-
 च्चण्डांशुज्वलिते मरौ तदखिलध्यानैर्भनो मुह्यति ॥ ७१॥
यत्संसर्गदशादसाधुचरिता एते पुनः कोटिशो
 निम्बाशोककपित्थबिल्वबकुलाः सौगन्ध्यमापुः परम् ।
धन्यस्त्वं हरिचन्दन त्रिजगतां संतापशान्त्यै पुनः
 संसारे नियतं स कोऽपि सदृशो युष्मादृशा वर्तते ॥७२॥
सानन्दं सुनिम्नगाप्रविलसत्कूलैऽनुकूले पुन
{{gap}र्मन्द मन्दसहो कलिन्दतनयातीरे विहारं कुरु
अस्मिन्किं तु मरालबाल सरसीकुञ्जे न याहि क्षणं
 यस्मादत्र पतत्रिपातरसिका भिल्लयः स्वनं कुर्वते ॥ ७३ ॥
तृष्णाजर्जरिताकृतिः कवलितो धर्माशुधोरैः करें-
 र्दीर्घोञ्चितचक्षुरद्य कलयस्त्वतः परं जीवनम् ।}}