पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११२
काव्यमाला ।


त्वं त्वेतां कलकूजितैरपि मनाङ् नो भावयस्यातुरां
 तत्कि साहजिकं मधुव्रतं मनाक्त्यक्तुं रसं वाञ्छसि ॥६२॥
जाता नैव तृषा कृशा न समभूत्तापापकर्षक्रिया
 नो वा लोचनपङ्कजैरपि मनागालोकि किं चाधिकम् ।
क्षुभ्यद्धोरतरारवैः प्रतिदिशं झञ्झानिलार्द्राविता
 सेयं नारदमण्डलीति कलयञ्चञ्चत्यलं चातकः ॥ ६३ ॥
दैन्यं मां त्वमुरीकुरु प्रतिपदं हित्वा मनास्यूथिकां
 स्थेयं कत्यपि वासराणि कथमप्यालम्ब्य धैर्यं हृदि ।
आयाते खलु माधवे प्रविदलसौरभ्यलोभास्पदे
 नूनं ते शरणं स एव भविता माकन्दभूमीरुहः ॥ ६४ ॥
साफल्यं कलये चकोर भवतो धन्योऽसि मन्यामहे
 कां कीर्ति कथयामि ते त्रिभुवने जागर्ति ते संस्तवः ।
किं वा पुष्यमितस्तवास्ति विमलं पीयूषधाराभरं
 चन्द्रे पासि निरन्तरं कमलिनीमोचरेऽपि स्फुटम् ॥६५॥
अध्माताः प्रतिदिनसं सरमसं गर्जत्यमी वारिदाः
 प्रौढध्वानधुरंधराः प्रतिपदं चञ्चन्ति विधुच्छटाः
भूयो मत्तमहामयूरनिकराः कूजन्ति केकारवै-
 स्तन्मन्ये समुपागतोऽस्ति सहसा वर्षायुतो वासरः॥६६॥
भूयो निर्भरसर्वगर्वगरिमा मुग्धानानां मुदा
 चञ्चचम्पककोषचुम्बितमना चात्यद्य मन्दानिलः ।
नो युक्तं सहसान्यतः प्रचलितुं हे पान्थ चित्तव्यथां
 मा कार्षीः किमु पञ्चबाणनृपतौ जागर्ति चिन्ता तव ॥६७॥
शैत्यं तापहरं तवास्ति न मुघा मन्ये सुधानायक
 प्रोदच्चत्सुषमासमृद्धिापि ते जागर्ति लोकत्रये ।