पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३ पद्धतिः]
६३
भिक्षाटनकाव्यम् ।

आजन्मपाटलरुचावधरे तदीये
रागोऽपरः पुनरयं सखि दूषणाय ।
जातास्य रत्नशकलस्य कृतोऽपि दक्षै-
रर्धक्षयाय नवकृत्रिमरागयोगः ।। १२ ।।
मा कज्जलेन मलिनीकुरु लोचनान्ते
1यद्यस्तदुक्तिमवमन्य तथा कियन्त ।
चन्द्रश्चिराय वदनेन तवाभिवाञ्छ-
न्साम्यं लभेत सखि हन्त मलीमसोऽपि ॥ १३ ॥
स्निग्धापि न प्रणयि चेत्तव नेत्रमन्य-
म(द)न्यस्य मा भवतु संस्करणप्रयासः ।
आकल्पितादपि तयोः सखि केबलस्य
जानातु कान्तिमखिलामखिलोऽपि लोकः ॥ १४ ॥
पर्याप्तदीर्घनयनोत्पलभूरितं(षिते) ते
कर्णे कुतः सखि नबोत्पलमादधासि ।
यद्यन्यथा(दा)भरणमिच्छसि कर्णयोस्ते
पथ्योक्तय(ः) श्रवणभूषणतां लभन्ताम् ।। १५ ।।
आदर्शमाशु सखि मुञ्चतु वापराधं
कस्त्वां विनापि मलिनाशयमाश्रयेत ।
छायां प्रदृश्य सततं तव योऽद्य रुपे
निर्द्वन्द्ववादमधुना शिथिलीचकार ॥ १६ ॥
केयूरनूपुरशिखामणिपारिहार्य-
हारादिभिः किमबले शृणु संग्रहोक्तिम् ।
भूषा त्रपा मृगदृशः शुचि संप्रदायि
पुंसः श्रुतं यदवरं परमङ्गभारः ॥ १७ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये मण्डनप्रतिषेधपद्धतिस्तृतीया ।