पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

चन्द्रस्य संचितकलस्य शरत्प्रसादो
गन्धद्विपस्य च पुनर्मदिरोपयोगः ।
प्रागेव यौवनपरिष्करणे शरीरे
भूरोऽपि भूषणविधिः प्रमदाजनस्य ॥ ३ ॥
लाक्षानियतुमवलम्बितमात्र एव
सख्या रेण तरुणाम्बुजकोमलेन ।
ईशान्तिकब्रजविघ्नभुवा रुषेव
कस्याश्चिदग्रदमाशु बभूव रक्तम् ॥ ४ ॥
कस्याश्चिदग्रपदमाशु सखी विधाय
लाक्षाक्र(क्त)मेकमारग्रहणे प्रसक्ते ।
आरञ्जितेतरविवेकमपारयन्ती
कर्तुं मुहूर्तमनयोः स्तिमितावतस्थे ॥ ५ ॥
कस्याश्चिता(दा)यतदृशश्चरणारविन्दे
नैपथ्यकर्मनिपुणेन सखीजनेन ।
आमुक्तमेव मणिनूपुरमुन्मदस्य
मुक्तक्षणेन निगलो मदनद्विपस्य ॥ ६ ॥
काचिद्गतित्वरणलुप्तमतिश्चकार
चूडामणिं चरण एव चकोरदृष्टिः ।
यः स्थापयत्यसम एव पदे स्वमूर्ध्ना
संभाव्यमस्य किमहो न जनस्य हास्यम् ।। ७ ।।
उद्दामदामकरचापविकल्पमौष्टिं
पुंवर्गचित्तमृगवञ्चनमार्गरज्जुम् ।
काञ्ची मदीयवलयान्न बहिः पुमर्थ
इत्यूचि(चु)षी कलरवेण बबन्ध काचित् ॥ ८ ॥
तां दिव्यसिन्धुपुलिनाकृतिभाजि काचि-
त्काञ्चीं नितम्बफलके कलयांचकार ।