पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२ पद्धतिः]
५७
भिक्षाटनकाव्यम् ।

भूत्वा चिरेण गमिताः कति नाम सन्तः
पृथ्वीश्वराश्च कति नाम तथेतरेऽपि ।
अद्यापि कीर्तिवपुषा कवयः पृथिव्यां
जीवन्ति तेष्वभिहितस्तुतयोऽथ्या तैः ॥ १४ ॥
मा मा परत्र विषये विषमेक्षणे रे
तस्मिन्सदा भवतु हीनगुणापि वाणी ।
यो मूर्ध्नि मुग्धहृदयो जनगणीयां
धत्ते सुधांशुकलयैव नहास्थिमालाम् ॥ १५ ॥
आकर्णयन्तु मम सूक्तिवेदः प्रवन्धं
तैर्नन्द्यतां पुनरयं खलु निन्द्यतां वा ।
आकर्णगोचरतयैव भवेद्गरीया-
नस्माकमस्तु सफलो रचनाप्रयासः ॥ १६ ॥
1वृत्तं वसन्ततिलकं विषयस्य जीव-
भिक्षाटनं कविरसौ शिवभक्तदासः ।
शृङ्गार एव हि रसस्तदिह प्रबन्धे
श्रद्धा न कस्य यदि सूक्तिविनोदशीलः ॥१७॥
इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये काव्यमुखपद्धतिः प्रथमा।


द्वितीया पद्धतिः।

भिक्षाटनेन पुरुहूतपुराङ्गनाना-
माकस्मिकोत्सवविधायिनि भूतनाथे ।
तासामनङ्गशरजर्जरमानसानां
नानाविधानि चरितानि वयं वदामः ॥१॥
रथ्यागतस्य गिरिशस्य विलोकनाय
निर्गन्तुकाममनसो(?) वनितागृहेभ्यः ।
नैजाभिरूप्यगुणदर्शितपौनरुक्त्य-
माचार इत्यभिमतं परिकर्म चक्रुः ॥ २ ॥