पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५६
काव्यमाला ।

काकै रसस्य निनिदैर्निचितेऽपि लोके
किं कोकिला विदयते नहि कूजितानि ॥ ७ ॥
दुर्दान्तदुर्जनचिते भुवने नराणां
प्रायो वरं विकलतैव कलोपपत्तेः ।
राहुग्रहेण न कदापि कलाविहीनः
पूर्णस्तु हन्त परिभूयत एव चन्द्रः ॥ ८ ॥
एकेन सूक्तिमणिना हृदयंगमेन
प्राज्ञस्य सत्कविपदं कुरवि(?) प्रयाति ।
वक्षोगतेन मणिनेव परस्य पुंसो
रत्नाकरत्वगणना लवणार्णवस्य ॥ ९ ॥
नापेक्षते महदपि प्रथमानदोषं
निर्दोषमल्पमपि नन्दति वस्तु लोकः ।
मूर्ध्ना बिभर्ति कृशमप्यनिशं सुधांशु
शंभुः कलङ्कर (स)हितं न तु पूर्णबिम्बम् ॥ १० ॥
सर्वे खलास्तिलकयन्तु चिराय पृथ्वीं
सत्संभवो बहु मतः सुजनेषु हेतुः ।
घोरेषु धर्मदिवसेष्वतिलङ्घितेषु
छायाद्रुमान्मृगयते नहि कोऽपि मर्त्यः ॥ ११ ॥
सन्तः क्षतानि जनयन्तु यथेष्टमस्या-
माभाति तैरधिकमेव सरखती मे 1
दन्तक्षतं प्रियतमैरुपभोगकाले
किं मण्डनाय न भवेद्वरसुन्दरीणाम् ॥ १२ ॥
सन्त्येव केऽप्यमितवाङ्मयदुर्विदग्धा-
स्तेषां पुरः सुकविभिः स्वगिरः प्रकाश्याः ।
तेजस्यति प्रवितते सति तिग्मरश्मे-
र्मुञ्चन्ति केचिदुपला निजमल्पतेजः ॥ १३ ॥