पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२ पद्धतिः]
५९
भिक्षाटनकाव्यम् ।

उत्तीर्णभीमजननाम्बुधयोऽपि मुक्ता
यामाश्रिता जघनसंगमकौतुकेन ॥ ९ ॥
मुक्तेरपि प्रियतमाजघनोपभोगः
श्रेयान्न मृग्यमिह वस्तुनि नः प्रमाणम् ।
तत्पश्यतायतदृशा रशनाकलापे
मुक्ता अपि स्वयमहो पुनरेव बद्धाः ॥ १० ॥
पीनस्तनद्वितयधारणकर्शितस्य
मध्यस्य मण्डनविधीन्न चकार काचित् ।
निःशङ्कमन्यभरनिर्वहणैकजाता-
कार्यात्परं न खलु भूषणमस्ति किंचित् ॥ ११ ।।
हारेण च स्तनयुगं परिभूष्य पीन-
मत्यायतं च जघनं रशनागुणेन ।
मध्यस्तु हन्त न कयापि विभूषितोऽभू-
द्रिक्तिः सतां हि रविनैव हि माननीयः ॥ १२ ॥
पङ्कोद्भवत्वपरिवादभयान्मृगाक्ष्या
जातं सरोजयुगलं कुचवेशधारी ।
शक्यं न धातृविहितं परिहर्तुमस्य
भूयोऽपि येन घनचन्दनपङ्कलेपः ॥ १३ ॥
तस्मानि(?) शङ्खवलयानि करे कयाचि-
त्तानीन्दुखण्डघटितानि ममैष तर्कः ।
यस्या निसर्गमृदुपाणिसरोजमेषा-
मामोचने झटिति यन्मुकुलीवभूव ॥ १४ ॥
एकावलीकलितमौक्तिककैतवेन
कस्याश्चिदुन्नतपयोधरयुग्मसेवाम् ।।
चक्रुर्मनांसि यमिनामतिनिर्मलानि
कंदर्पमुक्तशरपातकृतान्तराणि ॥ १५ ॥