पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

शृङ्गारशतकम् ।

बिम्बोष्ठो नवलाञ्छनः सरभसं रोमाञ्चितावङ्कितौ
वक्षोजौ नखलेखया नरहरेरानन्दमातन्वते ॥ २१ ॥

भास्वत्कुन्तलभारसौरभमिलद्भृङ्गालिझङ्कारकै-
र्लीलान्दोलितबाहुकङ्कणरणत्कारप्रकारैरपि ।
उद्दामस्मरकेलिकौतुकचलन्मञ्जीरमञ्जुस्वनैः
सीत्कारैर्मुदुसुन्दरं नरहरे बालारतं राजते ॥ २२ ॥

कोणे क्वापि दिशोर्भृशं नरहरे तारुण्यलक्ष्मीभृतो
वक्षस्यम्बुधरस्य संभ्रमवतीमुद्वीक्ष्य विद्युल्लताम् ।
तत्कालस्मरलोलकाञ्चनतनुर्धन्योरसि प्रेयसी
गङ्गावारितरङ्गिता हिमरुचो लेखेव सा खेलती ॥ २३ ॥

गम्भीरोऽपि समुत्सुको गुरुजनः शोभां नवामीक्षितुं
यात्यायाति मुहुर्मुहुर्नरहरे स्मेरः सखीनां गणः ।
वेषः सर्वरहस्यभावपिशुनो जाताः प्रकाशा दिशः
सिद्धिं यातु कथं मनोहरतनोः केलीगृहान्निर्गमः ॥ २४ ॥

चातुर्येण चकोरचञ्चलदृशा नूनं दृशां विभ्रमैः
सान्द्रस्नेहरसालसैर्नरहरे रागी वशं प्रापितः ।
शय्याभूषणभोजनेषु विरसः संयोगचिन्तातुरः
सर्वा विस्मृत एव देहरचनां शून्यं मनो वर्तते ॥ २५ ॥

आदर्शे वदनं प्रियस्य वदनं संयोज्य संवीक्षितं
सद्यः संमिलितं स्मितैर्नरहरे हर्षादुभाभ्यामपि ।
प्राणेशस्तु गतो विदेशमधुना मत्पातकैर्दारुणै-
रादर्शस्य किमु प्रयोजनमिति द्वेषेण दूरीकृतः ॥ २६ ॥

त्वं मां मुञ्च दयां विधेहि विरहेत्यालप्य वामभ्रुवा
विश्लेषाय समर्पिता नरहरे स्थूलाश्रुमुक्तावली ।
मूर्खः प्राणपतिर्विदेशरसिको धाम स्मरत्येव न
प्राणानेव जिघृक्षुरेष स कथं दानादिना शाम्यति ॥ २७ ॥