पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला।

अक्षान्मुञ्चति वल्लभे वलयति स्निग्धान्कटाक्षानियं
दायं स्थापयितुं नतस्य वदनं संस्तूय संचुम्बति ।
सारीं मारयति प्रिये रसभृता भावेन सीत्कारिणी
नारी सारसलोचना नरहरे सारीफलैः खेलति ॥ १५ ॥

चित्रे कौशलमागता कृतवती पत्रे प्रियस्याकृतिं
प्राणेशस्य मुखं निपीय सुखदं भूयोऽपि संचुम्बति ।
उद्भिन्ने मकरध्वजे मुहुरियं कण्ठग्रहायाकुला
संतापेन समन्विता नरहरे संमूर्छिता दृश्यताम् ॥ १६ ॥

विश्लेषज्वरपीडितान्नरहरे संतापयत्युच्चकै-
र्दुःखं यान्ति यथा यथा विरहिणो मारस्तथा मोदते ।
वामाङ्गीकृतशैलराजतनयं पश्यन्भवं भस्मसा-
ज्जातोऽयं स्वयमेव भूतपतिना नायं कृतो भस्मसात् ॥ १७ ॥

न्यस्ताः कङ्कतिकापथि प्रणयिना भूयोऽपि कृष्टाश्च ते
निम्नत्वं न हि यान्त्यमी नरहरे हर्षं गताः कुन्तलाः ।
वेणी नाम कथं घटेत रमणी बन्धाय जातोद्यम-
स्तत्प्रेम्णा शिथिलीकृते भुजयुगे बन्धः कथं सिध्यतु ॥ १८ ॥

नेयं पश्यति मां तथापि सदयं संपश्यति भ्रूयुगं
मौने तिष्ठति मानिनी तदधरः संभाषते मां प्रति ।
गाढाश्लेषविधिं करोतु न वधूर्वक्षस्तु रोमाञ्चितं
हासं नैव तनोतु हे नरहरे नीवी हसत्युच्चकैः ॥ १९ ॥

वामाङ्गीवदने विलोचनमृगद्वन्द्वं मया वीक्षितं
तेनैतन्मुखचन्द्र एव सुमते सत्यो मृगाङ्कः किल ।
चन्द्रे नास्ति मृगस्ततो नरहरिस्तर्कान्वितं भाषते
चन्द्रे चन्द्रपदप्रसङ्गवशतो जाता मृगाङ्कप्रथा ॥ २० ॥

वामांसे लुलितः किरन्परिमलं बन्धश्लथः कुन्तलो
निद्रापाटलघूर्णिते स्मरसुखध्यानालसे लोचने ।