पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

४२ काव्यमाला।

ज्वालाभिर्ज्वलितं जगत्त्रयमिदं मध्यं दिने मूर्छिता
यान्त्यायान्ति न मानुषा नरहरे चण्डो रविर्दीप्यते ।
कासारे किमु चक्रवाकमिथुनं विश्लिष्टमालोक्यते
कौमुद्यामिति संस्थिता विरहिणी व्यामोहमाविन्दति ॥ २८ ॥

संलापावसरे स्फुटं नरहरे दृष्टं शिरश्चालनं
दंपत्योर्वचने कदाचन मुदा हुंकारमाख्याति च ।
तेनायं पिशुनस्तृतीयमुचितं नैव द्वयोरावयो-
र्दूरीकृत्य सखीजनं वनितया दीपोऽपि निर्वापितः ॥ २९ ॥

पूर्वे तु स्नपितं विलोकनसुधाधाराशतैः शीतलैः
पश्चाच्चन्दनचर्चितं नरहरे मुक्ताक्षतैरर्चितम् ।
पुष्पैः पूजितमेव शंभुयुगलं किंतु स्फुरत्पाणिजै-
र्दत्ताश्चन्द्रकलाः शिवप्रियतमास्तत्पूजनं पूजनम् ॥ ३० ॥

अस्या नीलसरोजरम्यनयने नीलं यथैवाञ्जनं
जात्या चन्दनशीतले स्तनतटे श्रीखण्डलेपो यथा ।
गात्रे काञ्चनपत्रसुन्दरतरे भूषा यथा काञ्चनी
बिम्बोष्टेऽपि तथा न किं नरहरे ताम्बूलरागप्रभा ॥ ३१ ॥

कुर्वन्नेव महोत्सवं नरहरे कामाधिकैः संभ्रमैः
कामिन्यै मिलनस्य पृच्छति सुखं प्राणेश्वरः कौतुकी ।
वक्तुं नार्हति लज्जया परवशा संमीलयन्ती दृशौ
कर्णे तस्य तु किङ्किणीकलरवस्तस्याः सुखं शंसति ॥ ३२ ॥

नाथं नन्दयितुं सखे नरहरे माणिक्यमञ्चे स्थिता
वीणां वादयति स्म विस्मयमयीं जेगीयमानाङ्गना ।
गाने स्नेहसमन्वयः समधिको वीणाक्वणे नास्त्यसौ
तुल्यत्वे सति तारतम्यमनयोः सुज्ञेन विज्ञायते ॥ ३३ ॥

लावण्यैकनिधे विनोदजलधे मीनाक्षि मन्दस्मिते
नानाविभ्रमनायके नरहरिर्दासानुदासस्तव ।