पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३७ पद्धतिः
१५५
भिक्षाटनकाव्यम्


सप्तत्रिंशी पद्धतिः ।

दीर्घां निशां शमयितुं विरहे हरेण
निद्राप्रसक्तिरहितस्य वधूजनस्य ।
नानाविधानि चरितानि सखीं प्रकृत्य
जातानि यानि कथयाम्यहमद्य तानि ॥ १ ॥
आहूत एव न समीपमुपैति भिक्षां
गृह्णाति नैव मुहु'""म्बयते तथापि ।
यत्ते चिरादनुसृतोऽपि न चाभिमुख्यं
भिक्षु मृगाक्षि वद कोऽयमदृष्टपूर्वम् ॥ २ ॥
भिक्षाप्रदानसमये न मया तदानी-
मालिङ्गितोऽभवदहं पुनरद्य दूये ।
चिन्तामणिं करतलस्थमुपेक्षयोर्व्या-
सद्यो निपात्य मृगये तमितस्ततोऽपि ॥ ३ ॥
भिक्षातिसर्जनमिषादहमिन्दुमौले
वक्षःस्थलेन मम योजयितुं प्रवृत्ता।
अत्रान्तरे श्वसितमूर्जितमुत्ससर्ज
हारो हरस्य सखि भाग्यविपर्ययेण ॥ ४ ॥
भिक्षां ददात्यभवती(?)मुदिते शिवेन
तां दातुमोदनमयीं मयि सोऽद्य मायाम् ।
यत्तस्य गर्भित
"ररहःप्रवृत्त-
मन्दस्मितं सखि न ते हृदयादपैति ॥ ५ ॥
गात्रं विकर्षितमभूद्गिरिशानवाप्त्या
वार्धास्रमीक्षणमदर्शनतः शिवस्य ।
लब्ध्वा शिवं सततमाहितसंनिधानं
संतप्यते सखि कथं हृदयं मदीयम् ॥ ६ ॥
यद्यागमिष्यति मदीयगृहोपकण्ठं
भिक्षाटनाय गिरिशः समनन्तरेऽपि ।
....