पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५६
काव्यमाला ।

तस्योपगृहनविधिर्भवितव्य एव
दातुं प्रदानसमये स्ववशो हि भिक्षुः ॥ ७ ॥
नाट्ये कृतश्रममिवास्य पदं गतेन
देहीति दीनपदमप्यनुषक्तरागम् ।
पत्रावलम्व्यहिकरः करणप्रवीणः
प्रायेण कोऽपि नट एष न भिक्षुरेषः ॥ ८ ॥
इक्षुर्धनुर्मधुकरावलिरेव मौर्वी
शस्त्राणि पञ्च नवपुष्पमयानि कस्य ।
लोकत्रयं विजयते मदनस्तथापि
.........मयाय निजधैर्यमतन्त्रमेतत् ॥ ९॥
पुष्पायुधो गि(रि]शनेत्रहुताशनेन
प्राग्भस्मसात्कृत इति स्म कथा वृथैव ।
आलिङ्गिताननममुष्य तयोपदिष्टो
मन्ये वियोगिजनदाहविधिप्रकाशः ॥ १० ॥
बद्धा जटा नयनमप्यसमं चितैस्त-
न्नीतं वपुश्च भसितैरतिधूसरत्वम् ।
एवं य... 'नोह... भैक्षचारे
कान्तीविगूहितमहो विबभूव शंभुः ॥ ११ ॥
तां पार्वतीं मनसि मे परमेश्वरेण
यो येन योजयितुमक्षमतां प्रपेदे ।
तेनैव मां शमयितुं यतते मुधैव
कामोऽपि कामुकवदेव विवेकहीनः ॥ १२ ॥
वीथ्यां तथा पुरत एव जनस्य शंभुं
कण्ठे ग्रहीतुमभयं विहितोद्यमेव ।
लज्जा रुरोध सखि मां सहसा किमन्य-
त्स्त्रीवात्र साप्यभवदेव हि मे सपत्नी ॥ १३ ॥