पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३४
काव्यमाला ।

शीतक्रियां फलवतीं यदि कर्तुमास्था
सख्यौ मदीयमुखतः शृणुताभ्युपायम् ।
आनीय शंकरमिहाद्य मदीयपार्श्वे
कार्यास्ततो नु विविधाः शिशिरोपचाराः ॥ २ ॥
सत्यं त्वया प्रकटितो मयि भावबन्धः
शीतक्रियासु विरमाद्य वृथाप्रवृत्तेः ।
शक्नु (क्य): कथं शमयितुं सखि निर्विकल्प-
कल्पावसानदहनश्चुलुकोदकेन ॥ ३ ॥
जीहागधेन(?) हरिचन्दनसौरभेण
सान्द्रेण किं तव दिगन्तविजृम्भितेन ।
बद्धादरः पुरुषभस्मविलोच (लेप)नेऽपि
यत्तत्पराङ्मुखमना जगदेकनाथः ।। ४ ॥
किं चन्दनेन किमु पल्लवसंस्तरेण
किं मु(मौ)क्तिकैर्बिसगुणैरथ भूषणैर्वा ।
मूढे सखि प्रियसमागम एव यद्वा
मारज्वरस्य मरणं शिशिरोपचारः ॥ ५ ॥
प्रारभ्यते प्रतिविधिः सखि यो भवत्या
मूर्छासु मे हरसमानधनं विनान्यः ।
काराग्रहाज्झटिति निर्गमतो जनस्य
द्वारोपरोध (नपरेण) शठेन तुल्यः ॥ ६ ॥
आदित्यतापसदृशं विरहोष्मतापं
बुद्धेव या प्रयतते शिशिरोपचारे ।
सा त्वं पयोधिसलिलैर्वडवामुखाग्नेः
शान्ति करोष्यपरवह्नि ससंभ्रमेण ॥ ७ ॥
साम्यं प्रतीत्य सखि सांप्रतमन्यरोगै-
स्तस्येदृशः प्रतिविधानमनोरथस्ते ।