पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२९ पद्धतिः]
१३५
भिक्षाटनकाव्यम्

सोऽयं पुनः स्मरगतो विपरीतवृत्ति-
र्यस्यैक एव जनकश्च निवारकश्च ॥ ८॥
क्रीडाशुकं सखि कलीनवचांस्यजस्रं
जल्पन्तमेनमपसारय शीघ्रमेव ।
अस्या न शिक्षणगिरं मुहुरुद्गिरन्त्या
कार्यस्त्वयापि मम संनिधितोऽपसारः ॥९॥
निर्वापणं सरसवस्तुभिरेव कर्तुं
मूढैः किमस्य सखि वाञ्छसि चन्दनाद्यैः ।
किं त्वं न वेत्सि सरसेषु मनोभवाग्नि-
वृद्धिं प्रयाति सुतरामिति लोकवादः ॥ १० ॥
और्वानलं जलनिधेर्नहि शक्यते यै]-
र्हेतुं दवाग्निमथवा न वनद्रुमाणाम् ।
तैर्मोक्तिकैः किसलयैरपि तैरिदानीं
शक्यः कथं शमयितुं सखि मन्मथाग्निः ॥ ११ ॥
ये शीतलप्रकृतयो भुवने पदार्था-
स्तेऽप्यद्य हन्त मयि तापकरा मदाद्याः ।
यः सर्वसर्गनिकरे निपुणः स वेधाः
कर्तुं क्षमो न किमयं गुरुवैपरीत्यम् ॥ १२ ॥
शय्यां करोषि मम तापनिवृत्तये चे-
दादित्यमैत्र्यजनितौष्ण्यगुणैः सरोजैः ।
सख्यावयोर्ह्रदयजीवितयोरभेदा-
न्मारज्वरो मयि घनस्त्वयि हन्त मोघः ॥ १३ ॥
यं पन्नगारिनिविषोष्मनितान्ततप्ताः
श्रीकण्ठपादपमिवानिशमाश्रयन्ते ।
अन्तर्ज्वरं शमय मे सखि तस्य शंभोः
काराग्रहान्नहि वरः शिशिरोपचारः ॥ १४ ॥