पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२९ पद्धतिः]
१३३
भिक्षाटनकाव्यम्

कस्याश्चिदान्तरघनज्वरशान्तिहेतो-
रालीजनेन विहिते शिशिरोपचारे ।
रेजे कुचोपचितचन्दनपङ्कलग्ना
मुक्तावली बिसलतेव मुखाम्बुजस्य ॥ ११ ॥
सख्यार्पितेन कुचयोर्नवचन्दनेन
भूरिज्वला विरहिणी कुपिता क्षणेन ।
तस्यास्तु देवघनसंनहनावि(दि)लेप्तुं
काचित्कृपामृदुमना न वृथा चकार ॥ १२ ॥
कस्याश्चिदीशविरहानलतापशान्त्यै
वाञ्छां विभोर्बहुमते भसिते वहन्त्या ।
भस्मात्मना परिणतः क्वथितोऽङ्गसङ्गा-
त्सख्या कृतः सरसचन्दनलेप एव ॥ १३ ॥
कह्णारसारघनसारहिमादि वस्तु
यत्पठ्यते हृदयतापहरं विदग्धे ।
तत्सर्व(मेव स]मभूत्कुचयोः परस्याः
किं चौषधं गिरिशशब्दितमेव शिष्टम् ॥ १४ ॥
जित्वा सरोजनिलयामलयागृहीतां
सौर्यं तमः कमलिनीनियतं परस्याः ।
पद्मैरकारि शयनं व्यजनं विशालैः
पत्रैर्मृणालरचितानि विभूषणानि ॥ १५ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये शिशिरोपचारपद्धतिरष्टाविंशतिः ।

एकोनत्रिंशी पद्धतिः ।

नारीजनो हरवियोगमहोपशान्त्यै
शीतक्रियां प्रियसखीषु वितन्वतीषु ।
निःशृङ्खलद्विगुणवर्धिततीव्रताप-
स्तत्कृत्यभूषणपरामिति वाचमूचे ॥ १ ॥