पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३२
काव्यमाला ।

अन्तः सतामधिकृतं जनयन्नयासी-
दापाकलास्यनवकर्दमलेपकक्ष्याम् ॥ ४ ॥
कस्याश्चिदीशविरहे शयनीकृतानि
पङ्केरुहाण्यपि तया सह शोकमापुः ।
अन्यार्तिनिर्वृतिमशक्नुवतां विधातु-
र्मानिष्वयं सुमनसामुचितैव वृत्तिः ॥ ५ ॥
धारागृहं विरहवह्निशमाय तन्व्या
भूयोऽपि मुग्धपरिवारजनश्चकार ।
तस्याः सदा कुचतटे पतिताम्बुधारे
धारागृहत्वमधिकुर्वति नेत्र एव ॥ ६ ॥
हारः पयोधरयुगे विहितः कयापि
विश्लेषितापजुषि नीलदृशामवापुः ।
संतापशान्तिकरणाक्षमतापवाद-
माधातुमिन्द्रमणिमूर्धनि बन्ध एव ॥ ७ ॥
विस्रम्भिता प्रियसखीवचनेषु रम्भा-
माश्लिष्यति स्म विरहोष्मशमाय काचित् ।
कस्याश्चन स्तनयुगे निशितं मृणाल-
सांनिध्यतेन(?) सुषुवेऽम्बुजमाननस्य ॥ ८ ॥
आपीतरक्तकपिशा किमु जालजिह्वा
ज्वाला किमद्य जगतः किमुत क्षयाग्नेः ।
आलोक्य काचिदतिसंदिदिहे सखीभि-
र्नीतानि शंभुविरहे नवपल्लवानि ॥९॥
हारादिभूषणविधिः सरसैर्मृणालैः
पत्रैर्नितान्तपृथुभिर्व्यजनोपयोगः ।
पद्मैश्च कल्य(ल्प) रचना विरहातुराया-
स्तत्पद्मिनीविधिरहो विरहैकशेषः ॥ १० ॥