पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२८ पद्धतिः]
१३१
भिक्षाटनकाव्यम्

गीर्वाणनाथगणकस्य जनार्दनादे-
रारुह्यतां सपदि लालत(?) मौलिमाला ॥ १७ ॥
काप्युच्चयः सुमनसां कुहचित्परागो
गन्धः क्वचित्कचन दक्षिणगन्धवाहः ।
दिष्टया वसन्तसमये मरणाभ्युपाय[:]
सार्वत्रिको विरहदुर्भरजीवितानाम् ।। १८ ॥
पूर्वं प्रवालमथ पुष्पमथो नु गन्धं
पश्चान्मधुव्रतकुलं पुनरस्य शब्दम् ।
चूते विधाय विधिरेवमभद्रमालां
किं किं करिष्यति वियुक्तनिरूढवैरः ।। १९ ।।

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्य उद्यानोक्तिपद्धतिः सप्तविंशतिः ।

अष्टाविंशी पद्धतिः ।

उद्रिक्तशंकरवियोगविषादशान्त्यै
नानाविधे सपदि बन्धुजनैः प्रवृत्ते ।
शीतक्रियाप्रकरणे वरवर्णिता(नी)नां
यद्यद्बभूव चरितं कथयामि तत्तत् ॥ १ ॥
संचारितैश्च कदलीदलतालवृन्तै-
रुत्थापितः परिजनैः शिशिरः समीरः ।
नान्तर्ज्वरं मृगदृशां शमयांबभूवु-
र्यत्ने कृतेऽपि न फलाय दुदुःखवादः(१) ॥ २ ॥
मालां नवोत्पलमयीं विरहोष्मितायाः
सख्या निधाय हृदये कृतमानुकूल्यम् ।
पुष्पास्त्रमोचनपरस्य मनोभवस्य
विस्रम्भणं न वनितासु कदापि कार्यम् ॥ ३ ॥
यः कल्पितः कुचतटे विरहातुरायाः
शैत्याय सान्द्रतरचन्दनपङ्कलेपः ।