पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३०
काव्यमाला ।

यत्ते निसर्गलघिमा यदभूल्लतानां
संसृज्य पुष्परजसा तव धूसरत्वम् ।
मैत्रं च यत्तव जलैरुचितं तदा तै-
र्मन्दानिल त्वमसि यत्प्रतिकूलवृत्तिः ॥ ११ ॥
आरग्वधादनिल कोरकमाहर त्वं
सद्वा प्रसूनमथवा दलमेतदीयम् ।
सौरभ्यमेव यदि वा करुणा तवाहो
किं नाञ्जनेयजनकस्य वियोगिनीषु ॥ १२ ॥
अत्युच्छ्रितासु सहकारमहीरुहाणां
शाखासु पुष्पनिबिडास्वधिरूढवन्तः ।
प्रायः कुहूरिति पिका निजकूजितेन
पथ्यां निशामभिवदन्ति वियोगिनीभ्यः ॥ १३ ॥
पोषं स्वकीयजननीपरिवर्जितानां
कुर्वन्ति ये बलिभुजः पिकपोतकानाम् ।
तैः सम्यगेव विदितं परिरक्ष्यपात्रं
कृष्णात्मनां सुकृतरूपमपि क्रियासु ॥ १४ ॥
पूर्वं मदीयवदनासवपुष्पितस्त्व-
मद्याहमस्मि विधिना हरविप्रयुक्ता ।
हा हन्त पीडयसि मां बकुल प्रसूनै-
र्भोक्तव्यमात्मकृतदुष्कृतमात्मनैव ॥ १५ ॥
बाणः(?) सुवर्णविजयी शुचिरेष गन्ध[:]
संभावना शिरसि ते परमेश्वरेण ।
एतत्तथापि कृतमाल तवास्ति दोषो
यत्संगतोऽसि मलिनैरसकृद्विरेफैः ॥ १६ ॥
उद्यानकेलिकमलानि च तानि हित्वा
शंभोः पदाम्बुजयुगे यदि ते रिरंसा ।