पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९८
काव्यमाला ।

शङ्कामिमां शमय नाथ पुनर्यथेष्टं
देशं भवान्व्रजतु केन तथा विरोधः ।
दाक्षायणीपरिणयप्रणयेऽपि किं ते
पाणिः फणीन्द्रपु(प)रुषोऽयमथान्यथा वा ॥ ३॥
पृच्छाम्यहं किमपि नाथ भवन्तमेत-
द्ब्रूहि द्वयोरपि तयोरधिकः क एव ।
अन्विष्य यस्तव वराहमलाभखेदो
व्याधाकृतेः सुचिरमस्य च यो भवन्तम् ॥ ४ ॥
स्वामिन्मदीयहृदये चिरकाङ्क्षितोऽयं
कार्यस्त्वया सपदि विप्रतिपत्तिलोपः ।
देहीति यत्पथमथाब्धिभवं विषं वा
जिह्वाग्रदुःसहमुदीरय किं तयोस्ते ॥ ६॥
जिज्ञासया हृदयमाकुलितं तथापि
पृच्छामि तत्कथय नायक तथ्यमेव ।
किं ते कपालमनिशं दयतः करस्य
किं वानुगेहमदतश्चरणस्य यत्नः ॥ ६ ॥
याचे भवन्तमधुना मधुबन्धुशत्रो
शङ्कामिमां प्रशमयातिचिरानुषक्ताम् ।
त्वद्भक्तयोर्वद पुलिन्दमुकुन्दयोस्ते
नेत्रं यदेतदधिकं कतरेण दत्तम् ॥ ७ ॥
अभ्यर्थये भव भवन्तमपाकुरुव
दीर्घं विवादमनुयुक्तविबोधनेन ।
का वल्लभा तव हिमालयजह्नुपुत्र्यो-
र्भागेन किं परिणता शिरसा धृता वा ॥ ८॥
अस्त्येव यानविहतीभ(तिर्भ)वतस्तथापि
संदेहमद्य निरवद्य निराकुरुष्व ।