पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५ पद्धतिः]
९७
भिक्षाटनकाव्यम् ।

सद्यः प्रयाणकरुणोद्यमगम्यमान-
नैरस्यमार्द्रयितुमेव मनस्तदीयम् ।
पेतुः पिनाकिनि मुहुर्मृगलोचनाया
बाष्पोदयान्तरितलोचनवीक्षितानि ॥ १५ ॥
काचित्प्रसक्तगमना गिरिशं प्रतस्थे
छायाप्रविष्टवपुषा मुकुरे निधाय ।
तं सर्वथा सुलभमेव विबुध्यमाना
नारी 1वियोगहरविह्वलतां जगाम ॥ १६ ॥
लीलाम्बुजे मम रमस्व यथेष्टमस्मि-
न्मा गच्छ षट्पद परिभ्रमणेन किं ते ।
इत्याशु कापि गिरिशस्य गतिप्रसङ्गे
भृङ्गाश्रयं गतिनिषेधवचे(?) जगाद ॥ १७ ॥
आशासमुल्लसितपीनपयोधराग्रा
नानाधरस्फुरणदर्शितशङ्ककोपा ।
काचिद्बभूव गतिकाङ्क्षिणि नीलकण्ठे
बाष्पाम्बुदुर्दिनमुखी जलदागमश्रीः ॥ १८ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये विश्लेषारम्भपद्धतिश्चतुर्दशी।

पञ्चदशी पद्धतिः ।

स्था(स्थि)त्वा विभोर्जिगमिषोः पथि कातराक्ष्या-
स्तत्प्रस्थितिक्षणनिवारणकारणेन ।
(।) अप्यल्पकां विविपदामहवं य एव(१)
प्रश्नात्मिकानि ललितानि वचांसि चक्रुः ॥ १ ॥
स त्वं पुराण कथयेह ममाद्य रूपं
सख्या सहैव चिरकालकृतो विवादः ।
यद्भस्म ते वपुषि तद्भवता गृहीतं
दाहे स्मरस्य किमथो न पुरत्रयस्य ॥ २ ॥