पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६ पद्धतिः]
९९
भिक्षाटनकाव्यम् ।

सर्पैरलंकृतिरियं किमु कान्तिदर्पा-
त्किं सर्वयोषिदुपगूहनशङ्कया वा ॥९॥
पृच्छाम्यहं किमपि नाथ भवन्तमद्य
तथ्यं निगद्य कुरु मामपि वीतशङ्काम् ।
चापाहतिः किमनतिः शिरसा स्वयं वा
कामस्य दाहसमये तव कोपहेतुः ॥ १० ॥
यत्सत्यमत्र वद निश्चयहेतुहान्या
सोद्यो(दी)यते मम मतिश्चिरकालसे(मे)व ।
किं ते श्मशानमसिते किमु सर्पहारे
सर्वस्वबुद्धिरुत भैक्षकपाल एव ॥ ११ ॥
एतत्कुतूहलवशेन ममास्ति किंचि-
द्विज्ञाप्यमद्य भगवन्भव सावधानः ।
किं ते गलस्य यदि वा विबुधाङ्गनानां
कण्ठस्य भूषणमवेक्ष्य विषोपयोगः ॥ १२ ॥
वा मिश्रणं कुरु मदीयवचोभिरद्य
संदिग्धवस्तुकथनेन शशाङ्कमौले ।
मूर्धा नतिस्तदपि लोप्तुमलक्तरागं
गौर्यः पदे किमुत वज्रशिखोपरागम् ॥ १३ ॥
इत्युप्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये प्रश्नोक्तिपद्धतिः पञ्चदशी ।

षोडशी पद्धतिः ।

भिक्षाटनव्युपरमे सति वा(या)न्तमीशं
या विप्रयोगभयदुस्थि(:स्थ)तया न जग्मुः ।
तासां सरोरुहदृशामनुयानकाले
यच्चेष्टितं तदपि मां मुखरीकरोतु ॥ १ ॥
पूर्वाङ्गमङ्गजरिपो प्रतिनेत्रपात-
ब्रीडाद्विलोकन(कित!)वती न पुरा न बभ्रुः(नवभ्रूः) ।