पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। अथ दानप्रक्रमः । चारित्रं चिनुते तनोति विनयं ज्ञानं नयत्युन्नतिं पुष्णाति प्रशमं तपः प्रबलयत्युल्लासयत्यागमम् । पुण्यं कन्दलयत्यघं, दलयति स्वर्गं ददाति क्रमा- न्निर्वाणश्रियमातनोति निहितं पात्रे पवित्रं धनम् ।। ७७ ॥ दारिद्र्यं न तमीक्षते न भजते दौर्गत्यमालम्बते नाकीर्तिर्न पराभवोऽभिलषते न व्याधिरास्कन्दति । दैन्यं नाद्रियते दुनोति न दरः क्लिश्नन्ति नैवापदः पात्रे यो वितरत्यनर्थदलनं दानं निदानं श्रियाम् ॥ ७८ ॥ लक्ष्मीः कामयते मतिर्मृगयते कीर्तिस्तमालोकते प्रीतिश्चुम्बति सेवते सुभगता नो रोगतालिङ्गति । श्रेयःसंहतिरभ्युपैति वृणुते स्वर्गोपभोगस्थिति- र्मुक्तिर्वाञ्छति यः प्रयच्छति पुमान्पुण्यार्थमर्थं निजम् ॥ ७९ ॥ तस्यासन्ना रतिरनुचरी कीर्तिरुत्कण्ठिता श्रीः स्निग्धा बुद्धिः परिचयपरा चक्रवर्तित्वऋद्धिः । पाणौ प्राप्ता त्रिदिवकमला कामुकी मुक्तिसंप- स्सप्तक्षेत्र्यां (1) वपति विपुलं वित्तबीजं निजं यः ।। ८० ॥ अथ तपःप्रक्रमः। यत्पूर्वार्जितकर्मशैलकुलिशं यत्कामदावानल- ज्वालाजालजलं यदुग्रकरणग्रामाहिमन्त्राक्षरम् । यत्प्रत्यूहतमःसमूहदिवसं यल्लब्धिलक्ष्मीलता- मूलं तद्विविधं यथाविधि तपः कुर्वीत वीतस्पृहः ।। ८१ ।। यस्माद्विघ्नपरम्परा विघटते दास्यं सुराः कुर्वते कामः शाम्यति दाम्यतीन्द्रियगणः कल्याणमुत्सर्पति । उन्मीलन्ति महर्द्धयः कलयति ध्वंसं चयः कर्मणां स्वाधीनं त्रिदिवं शिवं च भवति श्लाघ्यं तपस्तन्न किम् ।।८२॥ १. "विनोति'ख. २. 'पवित्रे ख.