पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

2 सूक्तिमुक्तावली । सौभाग्यं विदधाति पल्लवयति प्रीतिं प्रसूते यशः स्वर्गं यच्छति निर्वृतिं च रचयत्यर्चार्हतां निर्मिता ॥९॥ स्वर्गस्तस्य गृहाङ्गणं सहचरी साभ्राज्यलक्ष्मीः शुभा सौभाग्यादिगुणावलिर्विलसति स्वैरं वपुर्वेश्मनि । संसारः सुतरः शिवं करतलक्रोडे लुठत्यञ्जसा यः श्रद्धामरभाजनं जिनपतेः पूजां विधत्ते जनः ॥१०॥ कदाचिन्नातङ्कः कुपित इव पश्यत्यभिमुखं विदूरे दारिद्र्यं चकितमिव नश्यत्यनुदिनम् । विरक्ता कान्तेव त्यजति कुगतिः सङ्गमुदयो न मुञ्चत्यभ्यर्णं सुहृदिव जिनार्चां रचयतः ॥ ११ ॥ यः पुष्पैर्जिनमर्चति स्मितसुरस्त्रीलोचनैः सोऽर्च्यते यस्तं वन्दत एकचस्त्रिजगता सोऽहर्निशं बन्द्यते । यस्तं स्तौति परत्र वृत्रदमनस्तोमेन स स्तूयते यस्तं ध्यायति क्लुप्तकर्मनिधनः स ध्यायते योगिभिः ॥ १२ ॥ अथ गुरुप्रक्रमः। अवद्यमुक्ते पथि यः प्रवर्तते प्रवर्तयत्यन्यजनं च निःस्पृहः । स सेवितव्यः स्वहितैषिणा गुरुः स्वयं तरंस्तारयितुं क्षमः परम् ॥ १३॥ विदलयति कुबोधं बोधयत्यागमार्थं सुगतिकुगतिमार्गौ पुण्यपापे व्यनक्ति । अवगमयति कृत्याकृत्यभेदं गुरुर्यो भवजलनिधिपोतस्तं विना नास्ति कश्चित् ॥ १४ ॥ पिता माता भ्राता प्रियसहचरी सूनुनिवहः सुहृत्स्वामी माद्यत्करिभटरथाश्वः परिकरः । निमज्जन्तं जन्तुं नरककुहरे रक्षितुमलं गुरोर्धर्माधर्मप्रकटनपरात्कोऽपि न परः ॥ १५ ॥ १. रोगः. २. इन्द्रसमूहेन. ३. 'गुरुद्वारम्' ग, ४. निर्दोषे. ५. स एव सेव्यः क. ४का० स००