पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। तस्याप्यस्य त्वयि जिनरवे भक्तिरुन्मुक्तये चे- ज्जेतुं शक्यो भवति न तया कोऽपरस्तापहेतुः ॥१॥ ज्योतीरूपं दुरितनिवहध्वान्तविध्वंसहेतुं त्वामेवाहुर्जिनवर चिरं तत्त्वविद्याभियुक्ताः । चेतोबासे भवसि च मम स्फारमुद्भासमान- स्तस्मिन्नंहः कथमिव तमो वस्तुतो वस्तुभीष्टे ॥ २ ॥ आनन्दाश्रुस्लपितवदनं गद्गदं चाभिजल्प- न्यश्चायेत त्वयि दृढमनाः स्तोत्रमन्त्रैर्भवन्तम् । तस्याभ्यस्तादपि च सुचिरं देहवल्मीकमध्या- न्निष्कास्यन्ते विविधविषमव्याधयः काद्रवेयाः ॥ ३ ॥ प्रागेवेह त्रिदिवभवनादेष्यता भव्यपुण्या- त्पृथ्वीचक्रं कनकमयतां देव निन्ये त्वयेदम् । ध्यानद्वारं मम रुचिकर स्वान्तगेहं प्रविष्ट- स्तत्किं चित्रं जिन वपुरिदं यत्सुवर्णीकरोषि ॥ ४ ॥ लोकस्यैकस्त्वमसि भगवन्निर्निमित्तेन बन्धु- स्त्वय्येवातौ सकलविषया शक्तिरप्रत्यनीका । भक्तिस्फीतां चिरमधिक्सन्मामिकां चित्रशय्यां मय्युत्पन्नं कथमिव ततः क्लेशयूथं सहेथाः ॥ ५ ॥ जन्माटव्यां कथमपि मया देव दीर्घं भ्रमित्वा प्राप्तैवेयं तव नयकथा स्फारपीयूषवापी । तस्या मध्ये हिमकरहिमव्यूहशीते नितान्तं निर्मग्नं मां न जहति कथं दुःखदावोपतापाः ॥ ६ ॥ पादन्यासादपि च पुनतो यात्रया ते त्रिलोकीं हेमाभासो भवति सुरभिः श्रीनिवासश्च पद्मः । १, पूजयेत्. 'चायृ पूजानिशामनयोः'. २. कुष्ठरोगाक्रान्तं मदीयं शरीरमिति टीकाकार:.