पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकीभावस्तोत्रम् । भक्त्या नते मयि महेश दयां विधाय दुःखाङ्कुरोद्दलनतत्परतां विधेहि ॥ ३९ ॥ निःसंख्यसारशरणं शरणं शरण्य- मासाद्य सादितरिपुप्रथितावदानम् । त्वत्पादपङ्कजमपि प्रणिधानवन्ध्यो वन्ध्योऽस्मि चेद्भुवनपावन हा हतोऽस्मि ॥ ४०॥ देवेन्द्रवन्द्य विदिताखिलवस्तुसार संसारतारक विभो भुवनाधिनाथ । त्रायस्व देव करुणाह्रद मां पुनीहि सीदन्तमद्य भयदव्यसनाम्बुराशेः ॥ ४१ ।। यद्यस्ति नाथ भवदङ्घ्रिसरोरुहाणां भक्तेः फलं किमपि संततसंचितायाः । तन्मे त्वदेकशरणस्य शरण्य भूयाः खामी त्वमेव भुवनेऽत्र भवान्तरेऽपि ॥ ४२ ॥ इत्थं समाहितधियो विधिवज्जिनेन्द्र सान्द्रोल्लसत्पुलककञ्चकिताङ्गभागाः । त्वद्विम्बनिर्मलमुखाम्बुजबद्धलक्ष्या ये संस्तवं तव विभो रचयन्ति भव्याः ॥ ४३ ।। जननयनकुमुदचन्द्र प्रभास्वराः खर्गसंपदो भुक्त्वा । ते विगलितमलनिचया अचिरान्मोक्षं प्रपद्यन्ते ॥ ४४ ॥ (युग्मम् ) इति श्रीसिद्धसेनदिवाकरविरचितं पार्श्वनाथस्य कल्याणमन्दिरस्तोत्रम् ॥


श्रीवादिराजप्रणीतं एकीभावस्तोत्रम् । एकीभावं गत इव मया यः स्वयं कर्मबन्धो घोरं दुःखं भवभवगतो दुर्निवारः करोति । १. बिम्बं प्रतिमा. २. वादिराजस्य देशकालौ न ज्ञायेते, किं त्वेतप्रणीतमेकीभा- वस्तोत्रं दिगम्वरा एव पठन्ति. अस्य स्तवस्य कर्तृनामरहितैका संक्षिप्तावचरिस्त्रीणि मूलपुस्तकानि चास्मामिर्जयपुर एव समधिगतानि.