पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्विंशतिजिनस्तुतिः। हे पुरुषदत्ते, ते तव प्रसादाः सदसि सभायां फलकराः कार्यसिद्धिकारिणो भवन्तु मे मम । प्रचलन्ती स्फुरन्ती या विद्युत्तद्वचारु गात्रं यस्याः सा तस्याः संबोधनम् । विलसञ्चामसिफलकाभ्यां खगखेटकाभ्यां रामा रमणीया तस्याः संबोधनम् । अभी- मोऽरौद्रो हासो हसनं यस्याः । रिभ्यो भीर्भयं तस्या ईतिभूते । अभीनिर्भया या महासरिभी प्रौढमहिषी तामिता गता तस्याः संबोधनम् ।। व्यमुचञ्चक्रवर्तिलक्ष्मीमिह तृणमिव यः क्षणेन तं सन्नमदमरमानसंसारमनेकपराजितामरम् । द्रुतकलधौतकान्तमानमतानन्दितमूरिभक्तिभा- क्सनदमरमानसं सारमनेकपराजितामरम् ॥ ६९ ॥ यचक्रवर्तिलक्ष्मी क्षणेन वेगेन तृणवदत्याक्षीत तं अरं अरनामानं जिनं हे जनाः, आनमत । किंभूतम् । सन्ना क्षीणा मदमरणमानसंसारा यस्य तम् । लक्ष्मी किंभूताम् । अनेकपा गजास्तै राजिता शोभिताम् । जिनं किंभूतम् । द्रुतं विलीनं यत्सुवर्ण तद्व- स्कान्तं कमनीयम् । आनन्दितं भूरिभक्तिभाजां संनमतां प्रणामकारकाणाममराणा मानसं चित्तं येन तथा सारं श्रेष्ठम् । दिग्विजत्रादिप्रक्रमेऽनेके बहवः पराजिता अमरा मागधादिदेवा येन तम् । यद्वा लक्ष्मी ऋथंभूताम् । अनेकैः परैरजिताम् । अरं शीघ्रम् ॥ स्तौति समन्ततः स्म समवसरणभूमौ यं सुरावलिः सकलकलाकलापकलितापमदारुणकरमपापदम् । तं जिनराजविसरमुजासितजन्मजरं नमाम्यहं सकलकला कलापकलितापमवारुणकरमपापदम् ॥ ७० ॥ सुरेन्द्रश्रेणी यं जिनेन्द्रव्यूह स्तौति । समन्ततः सर्वतः सत्यतीतार्थकम् । समवस- रणभूमौ । किंभूता । सकलाः समस्ताः कला विज्ञानानि तासां कलापेन समूहेन कलिता सहिता । अपमदा अपगतमदा । सह कलकलेन कोलाहलेन वर्तते । कला मधुरा । तं जिनेन्द्रविसरमहं नमामि । किविशिष्टम् । अरुणावारको करौ हस्तौ यस्य । अपगता आपदो. यस्मात्तम् । बिनाधितजन्मजरम् । अपकलितापमपमतकलहसंतापम् । अदारुणमरौद्रं करोतीति तम् । अपापं पुण्यं ददातीति तम् ॥ मीममहाभवाब्धिभक्भीतिविभेदि परास्ताविस्कुर- त्परमतमोहमानमतनूनमलं धनमघवतेऽहितम् । जिनपतिमतमपारमामरनिवृतिशर्मकारणं परमतमोहमानमतनूनमलङ्घनमधवतेहितम् ।। ७१ ॥ भीषणमहासंघारसमुद्रोत्पन्नभयविदारकम् । परास्ताः परिक्षिता विस्फुरन्तः परम्- तमोहमाना थेन । अदा मोहादशानान्मानो मिथ्याभिनिवेशः । परमताना. मोहमानौ वा। तनु तुच्छमनमपूर्ण च न अलमत्यर्थ धनं निबिड प्रमेयगाडम् । अघवते पापिने