पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्विंशतिजिनस्तुतिः। ते जीयासुरविद्विषो जिनवृषा मालां दधाना रजो- राज्या मेदुरपारिजातसुमनःसंतानकान्तां चिताः। की. कुन्दसमत्विषेषदपि ये न प्राप्तलोकत्रयी- राज्या मेदुरपारिजातसुमनःसंतानकान्ताञ्चिताः ॥ ६२॥ ते जिनोत्तमा जयन्तु । ये प्राप्तत्रैलोक्येश्वर्या अपि ईषदपि न मेदुर्मदं चक्रुरिति संबन्धः । किंविशिष्टाः । अविद्विषः शत्रुरहिताः । मालां नजं धारयन्तः । मालां किभू. ताम् । रजोराज्या परागपूरेण मेदुरा । पारिजातकुसुमानि सैतानकानि संतानककुसुमानि च तेषामन्ता अवयवा यस्यां ताम् । चिता व्याप्ताः । कया कोल् । कथंभूतया । कुन्द- पुष्पोज्ज्वलया । अपारिजाता अपगतवैरिहन्दा ये सुमनःसंताना विद्वत्समूहा देव- समूहा बा तेषां कान्ताः शिरःप्रणामपराः स्त्रियो वा तैरञ्चिताः पूजिताः ॥ जैनेन्द्र मतमातनोतु सततं सम्यग्दृशां सद्गुणा- लीलामं गमहारि भिन्नमदन तापापहृद्यामरम् । दुर्निर्मेदनिरन्तरान्तरतमोनिर्नाशि पर्युल्लम- लीलाभङ्गमहारिभिन्नमदनन्तापापहृद्यामरम् ।। ६३ ।। जैनेन्द्र जिनेन्द्रप्रोकं मतं सद्गुणश्रेणिलाभं सम्यग्दृष्टीनां वितनोतु । किविशिष्टम् । गमाः सदृशपाठास्टरि मनोहरम् । भिन्नो विदीर्णो मदनोऽनको येन । सापं संसार- श्रमणजमपहरतीति । यामानि व्रतानि रातीति । दुनिर्भेदं दुःखमेधे निरन्तरं निर्विवर- भान्तरमन्तर्भवं तमो मोहं दिर्नाशयतीत्येवंशीलम् । पर्यु साल्टीलान्प्रोद्यद्विलासान् लभ- जानजेयान् महारीन्महावैरिणो भिनत्तीति । नमन्तोऽनन्ता अप्रमाणाः अपापस्या अमरा यस्य ॥ दण्डच्छचकमण्डलूनि कलयन्स ब्रह्मशान्तिः क्रिया- संत्यज्यानि शमी क्षणेन शमिनो मुक्ताक्षमाली हितम् । तघाटापदपिण्डपिङ्गलरुचिर्योऽधारयन्मूढतां संत्यज्यानिशमीक्षणेन शमिनो मुक्ताक्षमालीहितम् ॥ ६४ ॥ स ब्रह्मशान्तिनामा सक्षः शं सुखं कुरुतात् । किं कुर्वन् । दण्डच्छत्रकमण्डलूनि कल- यवहम् । किभूतानि । सन्ति शोभनानि । अज्यानि अहीनानि । हामी प्रशमवान् । क्षणेन वेगेन । मुफाक्षमाला अस्यास्तीति । तसवर्णपिम्डपीतचिः । यो यक्षः कस्यापि शमिनो मुनेरनिश निरन्तरमीक्षणेन विलोकनेनाजतां मूढतां संत्यज्य हितं परि- णतिसुखमधारयत् । हितं किंभूतम् । मुक्ता अक्षमा यैस्ते मुनयस्तेषामाली श्रेणि- खस्या ईहितं चेष्टितम् ॥ भवतु मम मनः श्रीकुन्थुनामा सा- यमितशमितमोहायामितापाय हयः ।