१०२ काव्यमाल।
श्रीहेमचन्द्राचार्यविरचितं
अन्ययोगव्यवच्छेदिकाद्वात्रिंशिकाख्यं
श्रीमहावीरखामिस्तोत्रम् ।
अनन्तविज्ञानमतीतदोषमबाध्यसिद्धान्तममर्त्यपूज्यम् ।
श्रीवर्धमानं जिनमाप्तमुख्यं स्वयंभुवं स्तोतुमहं यतिष्ये ।। १ ।।
अयं जनो नाथ तव स्तवाय गुणान्तरेभ्यः स्पृहयालरेव ।
विगाह्तां किं तु यथार्थवादमेकं परीक्षाविधिदुर्विग्धः ॥ २ ॥
गुणेष्वसूयां दधतः परेऽमी मा शिश्रियन्नाम भवन्तमीशन् ।
तथापि संमील्य विलोचनानि विचारयन्तां नयवर्ती सत्यम् ॥ ३ ॥
खतोऽनुवृत्तिव्यतिवृत्तिभाजो भावा न भावान्तरनेयरूपाः ।
परात्मतत्त्वादतथात्मतत्त्वा द्वयं वदन्तोऽकुशलाः खलन्ति ॥ ४ ॥
आदीपमाव्योम समस्खभावं स्याद्वादमुद्रानतिमेदिवस्तु ।
तन्नित्यमेवैकमनित्यमन्यदिति त्वदाज्ञाद्विषतां प्रलापाः ॥ ५॥
कर्तास्ति कश्चिजगतः स चैकः स सर्वगः स खवशः स नित्यः ।
इमाः कुहेवाकविडम्बनाः स्युस्तेषां न येषामनुशासकस्त्वम् ॥ ६ ॥
न धर्मधर्मित्वमतीव भेदे वृत्त्यास्ति चेन्न त्रितयं चकास्ति ।
इहेदमित्यस्ति मतिश्च वृत्तौ न गौणभावोऽपि च लोकबाधः ॥ ७ ॥
सतामपि स्यात्कचिदेव सत्ता चैतन्यमौपाधिकमात्मनोऽन्यत् ।
न संविदानन्दमयी च मुक्तिः सुसूत्रमासूत्रितमत्वदीयैः ॥ ८ ॥
यत्रैव यो दृष्टगुणः स तत्र कुम्भादिवन्निष्प्रतिपक्षमेतत् ।
तथापि देहाबहिरात्मतत्त्वमतत्त्ववादोपहताः पठन्ति ॥ ९॥
खयं विवादग्रहिले वितण्डापाण्डित्यकण्डूलमुखे जनेऽस्मिन् ।
मायोपदेशात्परमर्म भिन्दन्नहो विरक्तो मुनिरन्यदीयः ॥ १० ॥
१. अस्या अन्ययोगव्यवच्छेदिकाद्वात्रिंशिकाया एक कर्तृनामरहितटीकासमेतं नाति-
शुद्ध पुस्तकमग्निमायाश्चायोगव्यवच्छेदिकाद्वात्रिंशिकाया मूलमानमेकमरमभ्यं श्रीशान्ति.
विजयमुनिवरैरर्पितम्.