पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमहावीरस्वामिस्तोत्रम् । कुसमयरुतमालाभङ्गसंहारवायो कुनयकुवलयालीचूरणे(चूर्णने) मत्तनाग । तव गुणकणगुम्फे मे परीणाममित्थं विमलमपरिहीणं हे महावीर पाहि ॥ २६ ॥ अनयनिबिडे पीडागाढे भयावहदुःसहे विरहविरसे लजापुञ्जे रमे भवपारे । निरयकुहरंगामी हाहं न सिद्धिमहापुरी- सरलसरणि सेवे मूढो गिरं तव वीर हे ॥२७॥ निरीहं गन्तारं परमभुवि मन्तारमखिलं निहन्तारं हेलाकलिकलह.... भवन्तं नन्तारो नहि खल निमजन्ति भवमी- महापारावारे मरणभयकल्लोलकलिले ॥२८॥ एवं सेवापरिहरया (१) लोलचूलामणीद्ध- च्छायाली खरकिरणभाभिन्नमम्भोरुहं वा । चित्तागारे चरणकमलं ते चिरं धारिणो मे सिद्धावासं बहुभवभयारम्भरीणाय देहि ॥ २९ ॥ इत्थं ते समसंस्कृतस्तवमहं प्रस्तावयामासिवा- नाशंसे जिनवीर नेन्द्रपदवीं न प्राज्यराज्यश्रियम् । लीलामाजि न वल्लभप्रणयिनीवृन्दानि कि त्वर्थये नाथेदं प्रथय प्रसादविशदां दृष्टिं दयालो मयि ॥ ३० ॥ इति श्रीजिनवल्लभसूरिप्रणीतं समसंस्कृतप्राकृतं श्रीमहावीरखामिस्तोत्रम् । १. जिनवलमेति ग्रन्थकर्तुर्नामापि.