पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/91

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३.लाबानके देवदासाख्यांग्रिका ।।
९१
वृहत्कथामञ्जरी

ततो वाहनमादाय राक्षसं सहितस्तया ।
व्रजन्गृहीत्वा तनयां नृपतेरार्यवर्मणः ॥ २७२ ॥
स्कन्ददासस्य वणिजो हृत्वा सह धनैः सुताम् ।
दुःखलब्धां समादाय देवसेनसुतामपि ॥ २७३ ॥
अवाप्योज्जयिनीं हृष्टः सत्त्वोदारो विदूषकः ।
आदित्यसेनतनयां भेजे लक्ष्मीं च पुष्कलाम् ॥ २७४ ॥
इति विदूषकाख्यायिका ॥ १२ ॥
इत्येवं सत्त्वमहतां शूराणां विजयः करे ।
इति वत्सेश्वरवचः श्रुत्वा सर्वे मुदं ययौ ॥ २७५ ॥
‘स गृहीतजयोद्योगस्तपसा त्रिपुरान्तकम् ।
अतोऽथ यदसाध्यं हि किं शिवस्मरणान्नृणाम् ॥ २७६ ॥
विद्याधरेश्वरो भावी तनयाद्विजयश्च ते ।
इति शर्वाद्वरं पाप त्रिरात्रोपोषितो नृपः ।। २७७ ॥
नृपवृत्तानुवृत्ते च देव्यौं दृष्ट्वा पतिव्रते ।
हृष्टो वसन्तकः प्राह प्रशंसंस्तद्विचेष्टितम् ॥ २७८ ॥
पुरा शर्यातितनया सुकन्या च्यवनं मुनिम् ।
लोपामुद्रा तथागस्त्यं तपसैव प्रतोषयत् ॥ २७९ ॥
इति गोपालकादीनां पुरो जल्पन्वसन्तकः ।
पद्मावतीं व्रतक्षामां नमोंक्तिभिरहासयत् ॥ २८० ॥
अन्येद्युरथ भूपाले जयोद्योगकथान्तरे ।
पौरुषं दैवसफलं प्राह यौगन्धरायणः ॥ २८१ ॥
अवश्यं पृथिवीपाल भूभुजां विजयः श्रियः ।
भवत्युत्साहनित्यानामिहामुत्र चे सिद्धये ॥ २८२ ॥
अवाप्यते शुभफलं सुकृतैः पूर्वसंचितैः ।
पश्याचिन्तितमेवाप्तं त्वया यौधिष्ठिरं धनम् ॥ २८३ ॥