पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९२
काव्यमाला ।

बभूव पाटलिपुरे देवदासाभिधो वणिक् ।
महाधनकुले जातो द्यूताद्दुर्गतिमागतः ॥ २८४ ॥
स ध्वस्तवदनकार्यो नगर पुण्ड्रवर्धने ।
श्वशुरस्य गृहं प्रायात्स्कन्धाकविषयावरः ॥ २८ ॥
श्वशुराबसथोपान्तमवाप्यचिन्तयत्क्षणम्
कथं दीनो गतच्छायः प्रविशामीति लज्जितः ॥ २८६ ॥
धन्यः शवो निरुच्छ्वासो दीर्घनिद्रातिशीतलः ।
सावज्ञः करुणापात्र बन्धूनां न तु दुर्गतः ॥ २८७ ।।
दावाग्निश्चन्दनं तस्य विषपानं मधूत्सकः !
विश्रान्तिमरणं चास्य स्वजनो येन पाच्यते ॥ २८८ ॥
शूरो विदग्धः सुजनोऽभिमानी विद्वान्कुलीनः कुशलः कलावान् ।
तावच्चाखीति विभाति पुंसां यवन्पुन देहीति वचोऽभ्युपैति ॥ २८९ ॥
देवदासो विचिन्त्येति निशि प्राप्य प्रतिश्रियम्
केनापि वणिजा विष्टो भाण्डशालां पुर स्थिताम् ॥ २९० ॥
अपश्यत्तत्र वणिजो ललना स्वैरमागताम् ।
लिजजायां परिज्ञाय तामेवाभूत्सुदुःखितः ॥ २९१ ।।
रतान्ते साप्युपपत्तिं प्राह मद्भर्तृमन्दिरे ।
तत्पूर्वपुरुषन्यस्तं निधानं विद्यते प्रियः ।
स्नुषाशामक नरकाप करनायकमास्थितम् ॥ २९२ ॥
देवदासः स मे भर्ता नष्टो द्यूतेन दुःखगः ।
तद्गृहात्तंझ् धनं सर्वं गत्वा तूर्णं समानय ।। २९३ ॥
इति गूढश्स्थितितः श्रुत्वा देवदासो मनोजवः ।
रात्रावेव गतौ गेहे गत्वा च प्राप तद्धनम् ॥ २९४ ॥
तिने स्वपदवीं प्राप्ते तस्मिंस्तत्र सुखस्थिते ।
आगत्योपपतिस्तस्मातन्मन्दिरमयाचत ।। २९५ ॥