पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१.मानक श्रीबलादिग्विजया ।।
९३
वृहत्कथामञ्जरी

 
निघालोयादिममना क्रीडामूलमेन तद्दगृहम् ।
दृष्ट्वा शूनं महाखातं मूल्यमेवान्वयाचत ।। २९६ ॥
विवादे भूपतिपुरो देवदासो यथाश्नुतम् ।
निवेद्य निजवृत्तान्तं तामाहूयासतीं वधूम् ॥ २९७ ॥
घरदाररत राज्ञा निगृहीते सतामपि ।
कर्णनासाविरहिता कृत्वा तामाप्तवान्वधूम् ॥ २९८ ॥
इत्थं पितामहधनैः देवदासोऽभवत्सुस्ती ।
इति पुण्यवतां दैवात्स्वयमायान्ति संपदः ॥ २९९ ॥
इति देवदासाख्यायिका ॥ १३ ॥
श्रुत्वेति मन्त्रिवचनं राजा विजयलालसः ।
दिदेश दिग्जयोद्योगे सेनान्यमपि तद्युतिः ॥ ३०० ॥
ततो भ्रातरमाहूय पद्मावत्या नरेश्वरः ।
विदधे सिंहवर्माणं चेद्धि राज्ये बलाधिकम् ॥ ३०१ ॥
गोपालकं च विदशाराज्ये धृत्वा जयोत्सुकः
कृत्वा मन्त्रिगिरा दृप्तं वाराणस्यां महीपतिम् ॥ ३.०२ ॥
ब्रह्मदत्तं स संहृष्टसर्वसामन्तमण्डलम् ।
जेतुं सज्जगजानीकतुरंगोरखातभूतलः ।
ययौ सुभटसंमर्दव्यालोलितदिगन्तरः ॥ ३०३ ॥
पाण्डुरेणातपत्रेण यात्रायां विबभौ विभुः ।
क्षीरक्षोभसमुत्थेन शशाङ्केनेव मन्दरः ॥ ३०४ ॥
पार्थवंश्यस्य तस्याग्रे गिरिवर्णा गजा बभुः ।।
सेनाव्रतमिवापन्ना मेघाः खाण्डवतर्जिताः ॥ ३०५ ॥
तस्य सैन्ये भटा धूता विबभौ खङ्गमण्डली
पातालवासिप्रीत्येव संप्राप्ता भुजगावली ॥ १० ॥
कापालिकप्रणधिभिदैवजव्यञ्जनैरपि ।
आचकर्ष रिपोर्मन्त्र गूढं यौगन्धरायणः ॥ ३०७ ॥