पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९४
काव्यमाला ।

ब्रह्मदत्तस्य सचिवो धीमानयोगकरण्डिकः ।
व्यधाद्वत्सेश्वरस्याम्भो आसं च विषदूषितम् ॥ ३०८ ॥
उल्कासंदर्शनं घोरं मायास्ताच सुदुःसहाः ।
यौगन्धरायणस्तस्य प्रतियोगैरिवाभवत् ॥ ३०९ ॥
व्यर्थं चकार सकलं मायानिर्माणडम्बरम् ।
ततो बद्धाञ्जलिमान्रत्नोपायनसंयुतः ॥ ३१० ॥
ब्रह्मदत्तं स जित्वैव सर्वाशाविजयी नृपः ।
न्यवेशयत्सूर्य इव प्रताप मूर्ध्नि भूभृताम् ॥ ३११ ॥
ततः समस्तसामन्तमस्तकन्यस्त शासनः ।
पूजितोऽवन्तिराजेन मागधेन च सानुगः ॥ ३१२ ।।
देवीभ्यां सहितः श्रीमाल्लावानकपुरं ययौ ।
पौरनारीमुखाम्भोजविकाशनवभास्करः ॥ ३१३ ॥
इति श्रीवत्लेशदिग्विजयः ॥ १४
चक्रवर्तिश्रियं प्राप्य हेमरत्नाम्बरपदम् ।
भेजे शृङ्गारसाम्राज्यं कान्ताकेलिकलो नृपः ॥ ३१४ ।।
ततः कदाचिसचिवं प्राह वत्सेश्वरो जयी ।
भवन्मतिप्रभावोऽयमहो मद्विजयश्रिये ॥ ३१५ ॥
पश्य मे भ्रूलताक्षेपैरुत्खातप्रतिरोपिताः ।
जाता नराधिपाः पादचुम्बिचूडामणित्विषः ॥ ३१६ ।।
मन्येऽहं ब्रह्मदत्तोऽसौ नितान्तं कुटिलाशयः।
वशं नीतोऽपि यत्नेन दर्पान्धो विचलिष्यति ॥ ३१७ ॥
समानितस्त्वया देव स राजा न चलिष्यति ।
शुभं शुभकृतादेव विपरीताद्विपर्ययः ॥ ३१८ ॥
स्वेच्छासनद्विपस्तत्य ध्रुवे श्रीर्न भविष्यति ।
अनिदत्हतोऽभवद्विप्रः पद्माख्ये विषये पुरा ॥ ३१९ ।।


अतीकारपरायणा