पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३.लापानके-हलभूत्याख्यायिका ।।
९५
वृहत्कथामञ्जरी

सोमदत्तोऽभवत्तस्य पुत्रः शास्त्रविवर्जितः ।
वैश्वानराभिधश्वान्यः श्रुतः श्रुतिविदां वरः ।। ३२० ॥
अभिदत्तस्तयोः कृत्वा विवाहं प्रययौ दिवम् ।
सोमदत्तस्ततो मौख्योत्सदाचारविवर्जितः ॥ ३२१ ॥
राज्ञोऽपि निग्रहपदं ययौ दुर्जनचेष्टितैः ।
भ्रात्रा संरक्षितोऽभ्येत्य विदुषा नृपशासनात् ॥ ३२२ ।।
त्यक्त्वाग्रहारं सुकृशो जग्राह कृषिजीविकाम् ।
वटवृक्षं पृथुच्छायं पूजयन्सततं व्यधात् ॥ ३२३ ।।
क्षेत्रकर्माभवद्येन प्रवृद्धाः सभ्यसंपदा ।
हलभूतिरिति प्राप संज्ञां सं कृषितत्परः ।। ३२४ ॥
ततः परधनायत्तैः क्षणेनाथ विनाशिता ।
सा तस्य श्रीविधौ वामे पौरुषं हि कदर्थिता ॥ ३२६ ॥
स शोकव्याकुलो रात्रौ नष्टनिद्रो बटान्तिके ।
शुश्रावाकाशवचनं सभार्यः साश्रुलोचनः ॥ ३२६ ॥
मिहारो नाम यक्षोऽहं प्रसन्नस्ते सदार्चनात् ।
वेदानाप्नुहि मद्वाक्याद्विपुलां श्रियमाप्स्यसि ॥ ३२७ ॥
आदित्यप्रभमासाद्य श्रीकण्ठविषये नृपम् ।
गृहे गत्वा सदा कार्येष्वपृष्टः पृष्ट एव वा ॥ ३२८ ॥
'......"तत्वं मया दिष्टमपठत्स च तत्पुरः।
शुभं शुभकृतादेव विपरीताद्विपर्ययः ॥ ३२९ ।।
इत्याकर्ण्य स तद्वाक्यं तस्य राजा स्मितप्रियः ।
ददौ सुविपुलां लक्ष्मीं तस्मै विस्मयकारिणीम् ॥ ३३० ।।
ततः कदाचिद्भूपालस्तेन विश्रम्भसाक्षिणा ।
ययौ मृगव्यां पौरस्त्रीकटाक्षोत्पलमालितः ।। ३३१ ।।


१. क्षेत्रकर्मर सेस्तस्य' ख, ३. वलापातैः' ख. ३. मिदिरो' ख. ४. बहिण ख.

धारिणा ख.