पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९०
काव्यमाला ।

वणिजा धनलुब्धेन स च्छिन्नालम्बनो ययौ ।
निकृत्तपाणिजङ्घाग्रः समारूढोऽम्बुधेस्तटम् ॥ २५९ ॥
मनसो विषयं प्राप्य पथि शुश्राव भूपतेः ।
नित्यं हतैकपुरुषां तनयामार्यवर्मणः ॥ २६० ॥
प्रविश्य पूर्ववत्तत्र राक्षसं हन्तुमुद्यतः ।
सख्यं तेनार्थितः प्राप्य ध्यातो यः स्थानसंविदा ॥ २६१ ॥
आर्यवर्मा ददौ पुत्रीं तस्मै तां सह संपदा ।
स्थित्वा तु सुरतासक्तः किंचित्कालं पुनर्ययौ ॥ २६२ ॥
स्मरंस्तु विद्याधरसुतां सोऽवमेने नृपात्मजाम् ।
पारिजातलता मृङ्गो न हि जातीषु सादरः ॥ २६३ ॥
अगम्यां भूमिमासाद्य ध्यातस्तेन स राक्षसः ।
सुहृत्स यमदंष्ट्राख्यस्तमुवाह महाजवः ॥ २६४ ॥
अथोदयाद्रिपर्यन्ततटे सिद्धनिषेविते ।
त्यक्तः स रक्षसा तस्थौ न ततो रक्षसां गतिः ॥ २६५ ॥
तत्र पुष्करिणीतीरस्थितं दिव्याङ्गनाजनम् ।
ददर्श रत्नकलशैर्जलाहरणतत्परम् ॥ २६६ ॥
ताः पृष्टाः कौतुकात्तेन प्राहुर्विद्याधरात्मजाः ।
भद्रा नाम पितुर्भीत्या तिष्ठतीह सुलोचना ॥ २६७ ॥
मर्त्यशक्ता पुरा साभूत्तमोमोहनिवारणे ।
जलाहृतैरियं नित्यमस्माकं कमलेक्षणा ॥ २६८ ॥
इति श्रुत्वामृतेनेव सिक्तो रत्नाङ्गुलीयकम् ।
भद्रयैवपुरा दत्तं चिक्षेप कलशे लघु ॥ २६९ ॥
तदवाप्य ततः स्नाता विज्ञाय सहसादरात् ।
भद्रा ताभिस्तमानाय्य तत्याज विरहव्यथाम् ॥ २७० ॥
अथ तत्सुरतारम्भे स्थिरा विद्याधरी क्षणात् ।
विसस्मार निजां विद्यां भद्रा मर्त्यानुरागिणी ॥ २७१ ॥


समीपविं . २. वमत्य नृपाखच ख. ४. 'तदामोद ख.