पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/71

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३.लाबानके परिबाडाख्यायिका ।।
७१
वृहत्कथामञ्जरी

मम देवधनं दाराः प्राणाश्च किमतः परम् ।
सर्वमेव तवायत्तं गृहाणॊन्म्दादिनीं प्रभो ॥ ३१ ॥
नृपः श्रुत्वेति तद्वाक्यं न जग्राह परस्त्रियम् ।
लोकस्थितौ हि राजानः प्रमाणं धर्मसेतवः ॥ ३१ ॥
सुरालये विधास्यामि नर्तकी तामतो मज ।
इति सेनापतिवचः श्रुत्वा कोपाकुलोऽभवत् ॥ १३ ॥
भार्यामदोषां सत्यक्तुं नाहसीत्यरुणेक्षणाम् ।
इति निर्भय॑ तं भूभृनूनमविचलाशयः ॥ ३४ ॥
स विसृष्टश्चमू याते ततः संतायमूर्छितः ।
त्याजितो जीवितं राजा मन्मथेन प्रमाथिना ॥ ३५ ॥
इति देवसेनाख्यायिका ।। ३ ॥
पुरा विवेश भिक्षार्थं कस्यचिद्वणिजो गृहम् ।
परिव्राट् प्रयतो मौनी किंचिन्मीलितलोचनः ॥ ३६ ॥
भिक्षादानोद्यतकरां स ददर्श वणिक्सुताम्
कल्पितामिव कामेन मनः सारङ्गवागुराम् ॥ ३७ ।।
तां दृष्ट्वा मन्मथाविष्टस्त्यक्त्या मौनमनन्यधीः ।
हा कष्टं कष्टमित्याह तच्छ्रुत्वा निर्ययौ वणिक् ॥ ३८ ॥
सोऽब्रवीत्कौतुकाविष्टो भगवन्सहसैव किम् ।
परित्यक्तं त्वया मौलमिति पृष्टोऽभ्यधाच सः ॥ ३९ ॥
दुर्भगा तव कन्येयं शरीरधनहारिणी ।
त्यजैनां निशि गङ्गायां मञ्जूषे सुपिधानके ॥ ४० ॥
मूर्ध्ना प्रदीपं विन्यस्य ततस्त्वं मोक्ष्यसे भयात् ।
इत्युक्त्वा स्वाश्रमं प्रायात्परिव्राट् तदनन्तरम् ।। ४१ ॥
दीपाङ्कितेऽथ मञ्जूषे तां त्यक्तां वणिजा भयात् ।
गङ्गाकूलस्थितः कोऽपि प्राप राजकुमारकः ॥ ४ ॥


गः' ख. २. स विसृज्य च भूपाल स्मरसंता' ख. ३ री ख..४.

ख. ५. यस्ताव