पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७०
काव्यमाला ।

तेनादिष्टः स निपुणे युवजानिर्धनार्जने ।
ययौ प्रिया समामध्य संस्तम्भ्य विरहव्याथाम् ॥ १९॥
सापि तस्मिन्गते द्वारकपाटालस्विनी चिरम् ।
तद्वर्त्म वीक्ष्य शनकैर्बभूव गतजीविता ॥ २० ॥
निवर्तितोऽथ तद्भर्ता दृष्टा तां च तथागताम् ।
शोचान्व्यसुरभूदेवं दुःसहो विरहानलः ॥ २१ ॥
इति बहिल्लकाख्यायिका ॥२॥
सत्यमत्सुंदयायैव किंतु मथं न रोचते ।
अन्यद्विधत्ते पुरुषः करोति विधिरन्यथा ॥ २२ ॥
देवसेनाभिधो राजा योऽवन्त्यामभवत्पुरा ।
स कदाचित्समासीनो विज्ञप्तो बणिजाभवत् ॥ २३ ॥
देवास्ति यौवनवती तनया मम रूपिणी ।
उन्मादिनीति सत्याख्या सुधेव स्मरजीविनी ॥ २४ ॥
तव योग्येत्यनावेद्य न दत्तासौ मया क्वचित् ।
श्रुत्वेति तद्वचो राजा द्रष्टुं तां प्राहिणोद्विजान् ॥ २५ ॥
विलोक्योन्मादिनी विप्राः स्मरोन्मादवशीकृताम् ।
अनया संगतो राजा ध्रुवं रागाद्विनश्यति ॥ २६ ॥
संचिन्त्येति नृपं प्राहुः कन्या दुर्ललितेति च ।
तद्वाफ्याद्विमुख राजि सेनापतिस्वाप त्वम् ॥ २७ ॥
याति काले स भूपालो हर्म्यस्यां कुञ्जरे स्थितः।
ददर्श कान्तितटिनी तामेवोत्पललोचनाम् ॥ २८ ॥
निरीक्ष्य लोचनसुधां चित्तकैरवकौमुदीम् ।
स संदृप्तोऽभवत्सत्यं विपरीतगतिः स्मरः ॥ २९ ॥
दशमीमन्याचाबखामीथुषि क्षमापतौ दिनैः ।
सेनानीमालवृत्तान्तस्तमुवाच ततो रहः ॥ ३०॥


मोवि ख. र. न्युट्याथैतत् ख ६ भियात् ख. ४. क्षिति' ल.