पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३.लावानके घहिलकाख्यायिका ।।
६९
वृहत्कथामञ्जरी

महासेनानियो राजा धुरा अनुवंशं गतः ।
शोकाग्निना दह्यमानो गुल्मव्याधिभवाशवान् ॥ ७ ॥
मूलपूर्व गतच्छायं दृष्ट्वा परहिताभिधः
वैधः कूटपियाजालसंदेहाकुलितोऽभवत् ॥ ८ ॥
स पाहाभ्येत्य नृपति वल्लभा लव पञ्चताम् ।
यातेति तत्समाकगे भूपालो न्यस्ताविः ॥ ९ ॥
तस्य वेगानिपततः स्फुटिते गुल्मबन्धने ।
शरीरमाययौ स्वास्थ्यमिति सन्त्येव युक्तयः ॥ १० ॥
इति परहिताख्यायिका ॥ १ ॥
युत्तयैव नाशयिष्यामि नृपतेर्व्यसनामयम् ।
मन्निमिः परिरक्ष्यन्ते सोन्मदा हि नरेश्वराः ॥ ११ ॥
मगधाधिपतेः पुत्री यदि पद्मावती नृपः ।
प्राप्नोत्यसत्प्रयत्नेन तदेषा नः सहायता ॥ १२ ॥
श्रुत्वेति मन्त्रिवचन सेनापतिरभाषत ।
चक्रवर्तिवधूः सा हि भाविनीति श्रुतं मया ॥ १३ ॥
न हि वासवदत्तायां सत्तायास्मै महीमुजे ।
ददाति मगधाधीशो याचितोऽपिः प्रियां सुताम् ॥ १४ ॥
हत्याकाब्रवीन्मन्त्री दग्धा देवीति कृत्रिमम् ।
कृत्वा प्रयोग सावश्यं लभ्यते मगधात्मजा । १५ ॥
श्रुत्वेति सेनाधिपतिः प्राह साहसशङ्कितः ।
कथं नु सहले राजा दग्धा देवीति दुर्वचः ॥ १६ ॥
वियोज्यते नृपो देव्या यदेतच्छमलञ्चनम् ।
संशयाय वियोगो हि यूनोर्बद्धानुरागयोः ॥ १७ ॥
विशाखिलेन वणिजा मथुरावासिना पुरा ।
बहिलकाख्यः सचिदो विसृष्टो रत्नविक्रये ॥ १८ ॥


७. ते अमा ख... "कुण्ठ ख... "क्रिया' ख. ४. 'बाक्यमा' न.